महानदी परियोजना लवन शाखा नालिकायाः कार्येभ्यः नवकोटिरूप्यकेभ्योऽधिकः राशिः स्वीकृतः
रायपुरम्, 19 सितंबरमासः (हि.स.)। छत्तीसगढ-शासनस्य जलसंसाधन-विभागेन रायपुर-जिलस्य आरंग-विकासखण्डस्य महानदी-परियोजनान्तर्गतं लवन-शाखानहरस्य वितरक-शाखा-क्रमाङ्क-एकस्य कोण्डापार-माइनर्, रसौटा-माइनर्, केसला-माइनर् च इत्येषां रिमॉडलिङ्ग्, सी.सी.-लाइनिङ्ग्
महानदी परियोजना लवन शाखा नालिकायाः कार्येभ्यः नवकोटिरूप्यकेभ्योऽधिकः राशिः स्वीकृतः


रायपुरम्, 19 सितंबरमासः (हि.स.)।

छत्तीसगढ-शासनस्य जलसंसाधन-विभागेन रायपुर-जिलस्य आरंग-विकासखण्डस्य महानदी-परियोजनान्तर्गतं लवन-शाखानहरस्य वितरक-शाखा-क्रमाङ्क-एकस्य कोण्डापार-माइनर्, रसौटा-माइनर्, केसला-माइनर् च इत्येषां रिमॉडलिङ्ग्, सी.सी.-लाइनिङ्ग्, पुनर्निर्माणं जीर्णोद्धारं च कार्याय नव-कोटि षट् लक्ष अष्टषष्टि सहस्र-रूप्यकाणि स्वीकृतानि।

योजनायाः कार्ये सम्पन्ने रूपाङ्कित-सिंचनक्षेत्रे 1953.28 हेक्टेयर मध्ये 462.61 हेक्टेयर-पर्यन्तं यत् न्यूनं जातं तस्य पूर्तिः स्यात्, पूर्णरूपेण रूपाङ्कित-क्षेत्रे सिंचनं प्रस्तावितम्।

अस्य योजनाकार्यस्य सम्पादनार्थं जलसंसाधन-मन्त्रालयेन महानदी-भवनेन शुक्रवारदिने रायपुरस्थितं महानदी-परियोजनायाः मुख्य-अभियन्तारं प्रति प्रशासकीय-अनुमोदनं प्रदत्तम्।

---------------

हिन्दुस्थान समाचार