Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 19 सितंबरमासः (हि.स.) । प्रसिद्धः ओडिया-संगीत-निर्देशकः अभिजीतः मजुमदारः स्वास्थ्यमध्ये सुधारं प्राप्नोत। चतुर्दश-दिनपर्यन्तं वेंटिलेटरे उपविशित्वा, अद्य सः तस्मात् मुक्तः। सः वर्तमानकाले अखिलभारतीय आयुर्विज्ञान संस्थानं, भुवनेश्वर इत्यस्मिन आईसीयूमध्ये चिकित्सां प्राप्नोत।
अस्मिन् सम्बन्धे संस्थाने ताजातरीनं स्वास्थ्य-बुलेटिनं प्रकाशयितम्। चिकित्सकानां अनुसारम्, गुरुवासरे तस्य मस्तिष्कस्य एमआरआई परीक्षणं क्रियते। आईसीयू-ईसीएमओ विशेषज्ञः डॉ. श्रीकांतः बेहेरा नेतृत्वे, चिकित्सक-समूहः तस्य स्थिति निरन्तरं निरीक्षते।
अस्पतालप्रशासनस्य कथनानुसार, मजुमदारः शनैः शनैः निमोनियासंक्रमणात् मुक्तिं प्राप्नोत। तस्य किडनी तथा लिवर कार्यप्रणालीयोः अपि सुधारः दृष्टः। चिकित्सक-समूहः तस्य सम्पूर्ण-स्वास्थ्यस्थित्याः सतत् निरीक्षणं कुर्वन्ति, च तस्य शीघ्रं स्वास्थ्यलाभाय आशावान् अस्ति।
---------------
हिन्दुस्थान समाचार