प्रधानमंत्री जन्मदिने किंग चार्ल्सतः उपहारे कदंबस्य पादपः रोपितः
नवदिल्ली, 19 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदिना सप्ततितमे जन्मदिने प्राप्तं मित्ररूपं कदम्बवृक्षं स्वगृहे सप्त-लोककल्याण-मार्गे उपवनप्रदेशे शुक्रवासरे प्रातःकाले रोपितम्। एषः कदम्बवृक्षः तस्मै ब्रिटानिया-राज्ञा चर्ल्स-तृतीयेन उपहाररूपेण
प्रधानमंत्री नरेन्द्र मोदी अपने आधिकारिक आवास पर कदंब का पौधा रोपते हुए


नवदिल्ली, 19 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदिना सप्ततितमे जन्मदिने प्राप्तं मित्ररूपं कदम्बवृक्षं स्वगृहे सप्त-लोककल्याण-मार्गे उपवनप्रदेशे शुक्रवासरे प्रातःकाले रोपितम्। एषः कदम्बवृक्षः तस्मै ब्रिटानिया-राज्ञा चर्ल्स-तृतीयेन उपहाररूपेण दत्तः आसीत्।

प्रधानमन्त्री स्वस्य एक्स इत्यस्मिन् सञ्चारमाध्यमे उक्तवन्तः यत्— राजा चर्ल्स पर्यावरणस्य च सतत-विकासस्य च विषये गाढां रुचिं धारयति, एषः विषयः अस्माकं संवादेषु प्रमुखस्थानं धारयति।

भारतीय-स्थित-ब्रिटिश-उच्चायोगेन प्रकाशिते वक्तव्ये उक्तम्— राज्ञा चर्ल्स-तृतीयेन प्रधानमन्त्री- मोदये सप्ततितमे जन्मदिने कदम्बवृक्षः उपहाररूपेण दत्तः। एषः वृक्षः मित्रभावस्य च स्थायित्वस्य च साझा-प्रतिबद्धतां द्योतयति। एषः उपहारः मोदिना प्रवर्तितायाः एकः वृक्षः मातुः नाम्ना इत्यस्य अभियानस्य प्रेरणया दत्तः।

एषः उपहारः पर्यावरण-संरक्षणे वर्धमानं प्राधान्यम् आवेदयति, जलवायुः सांस्कृतिक-मूल्यश्च इत्येतयोः विषययोः भारत-ब्रिटानिया-देशयोः मध्ये प्रतीकात्मकं बन्धनं दृढीकृतवान्।

विशेषतया कदम्बवृक्षस्य भारतीय-संस्कृतौ परम्परायां च महान् महत्त्वं दृश्यते। अस्य वृक्षस्य भगवान् श्रीकृष्णस्य लीलाभिः सम्बन्धः अस्ति। धर्मग्रन्थेषु अपि एषः वृक्षः पवित्रः इति निर्दिष्टः।

-----------

हिन्दुस्थान समाचार