Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 19 सितंबरमासः (हि.स.)।विदेशमन्त्रालयेन उक्तं यत् भारतस्य सऊदी-अरबस्य च सामरिकसङ्गतिः अतीव दृढा अस्ति, आशां कुर्मः यत् परस्परहितानां संवेदनशीलतानां च परिगणनं भविष्यति। विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालस्य एषा प्रतिक्रिया ह्यः प्रदत्त-प्रतिक्रियां प्रति लघ्वी मन्दतराश्च जाता। ह्यः मंत्रालयेन उभयोरपि राष्ट्रयोः सैनिक-सन्धिं प्रति चिन्ता व्यक्ता आसीत्। उक्तं च यत् तस्मात् भारतस्य राष्ट्रियहितानि, क्षेत्रीयं वैश्विकं च स्थैर्यं प्रभावितं भविष्यति। पाकिस्तान-सऊदी-सन्धौ प्रावधानं अस्ति यत् यदि एकस्मिन् आक्रमणं भवेत् तर्हि तदुभयोरपि राष्ट्रयोः आक्रमणं मन्येत। प्रवक्तेन उक्तम् – “भारतस्य सऊदी-अरबस्य च मध्ये व्यापकः सामरिकः सङ्गः अस्ति यः गतवर्षेषु अतीव गाढः जातः। आशां कुर्मः यत् अस्माकं सामरिक-सङ्गतौ परस्परहितानां संवेदनशीलतानां च परिगणनं भविष्यति।
प्रवक्तारं चाहबहार-बन्दरगृहं प्रति अमेरिकी-प्रशासनस्य निर्णयः अपि पृष्टः। ट्रम्प-प्रशासनस्य प्रतिबन्ध-छूट-समाप्त्याः विषये प्रवक्तेन उक्तं यत् वयं तस्य प्रभावान् मूल्ययामः। उल्लेखनीयम् यत् भारतः चाहबहार-बन्दरगृहस्य बेहेश्ती-खण्डं सञ्चालनं करोति। शासकीय-सम्बन्धि-सम्प्रदायः इण्डिया पोर्ट ग्लोबल नामकः द्विपक्षीय-सन्धेः अन्तर्गतं बन्दरगृहं सञ्चालयति, यः अफगानिस्तानं मध्य-एशियं च प्रति सम्पर्काय अतीव उपयोगी अस्ति। ईरान-विरुद्धं व्यापक-प्रतिबन्धेषु अपि ट्रम्प-प्रशासनस्य प्रथम-कालस्य मध्ये भारताय चाहबहार-सम्बन्धेषु प्रतिबन्ध-छूटः प्रदत्ता आसीत्। ट्रम्प-प्रशासनस्य एषः नूतनः निर्णयः 29 सितम्बर-मितेः आरभ्य प्रवर्तिष्यते।
भारतस्योपरि 50-प्रतिशत-शुल्कं आरोप्य अमेरिकी-प्रशासनस्य एषा नूतना महती कारवाई। तस्मिन्नेव काले ट्रम्प-प्रशासनसहितं व्यापार-वार्ता अपि प्रवृत्ता अस्ति। प्रवक्तेन उक्तं यत् सहायकः USTR ब्रेण्डन् लिंच इत्यस्य नेतृत्वे अमेरिकस्य व्यापार-प्रतिनिधेः एकः दलः 16 सितम्बर-मितेः वाणिज्य-मन्त्रालये भारत-अमेरिकयोः व्यापार-सन्धेः विषये प्रवर्तमानां चर्चां प्रगाढतया कर्तुं सभाः अकरोत्। चर्चाः सकारात्मकाः दूरदर्शिन्यश्च अभवन्, यासु व्यापार-सन्धेः विभिन्न-अङ्गानि चर्चितानि। परस्पर-हितकरस्य व्यापार-सन्धेः शीघ्रं सम्पन्नतायाः प्रयत्नाः त्वरितुं निर्णयः कृतः।
-----------
हिन्दुस्थान समाचार