जुबिन गर्गस्य निधने पापोन, गौरव गोगोई च प्रकटिवान् गहन शोकम्
गुवाहाटी, 19 सितम्बरमासः (हि.स.)।प्रसिद्धः गायकः जुबिन्गर्गः इहलोकेन प्रस्थितः इति समाचारः श्रुत्वा संगीतजगति शोकतरङ्गः प्रवृत्तः। जुबिनस्य सखा भ्रातृसमानश्च गायकः अङ्गरागः (पापोन्) महन्तः स्वस्य फेसबुक्-पृष्ठे स्वभावान् व्यक्तवान्। कांग्रेस्-दलस्य
जुबिन गर्गस्य निधने पापोन, गौरव गोगोई च प्रकटिवान् गहन शोकम्


गुवाहाटी, 19 सितम्बरमासः (हि.स.)।प्रसिद्धः गायकः जुबिन्गर्गः इहलोकेन प्रस्थितः इति समाचारः श्रुत्वा संगीतजगति शोकतरङ्गः प्रवृत्तः। जुबिनस्य सखा भ्रातृसमानश्च गायकः अङ्गरागः (पापोन्) महन्तः स्वस्य फेसबुक्-पृष्ठे स्वभावान् व्यक्तवान्।

कांग्रेस्-दलस्य सांसदः प्रदेशकांग्रेसाध्यक्षश्च गौरवगोगोई अपि जुबिन्गर्गस्य निधनम् उपलक्ष्य शोकं प्रकटितवान्।

पापोनः फेसबुक्-लेखे लिखितवान्— “एषः समाचारः महतः आश्चर्यस्य कारणम्। एका पीढ्याः स्वरः। अतीव शीघ्रं गतः। वाक्यानि न लभ्यन्ते। मित्रं हृतम्। भ्राता हृतः। महत् शून्यम् जातम्। अस्य आत्मनः शान्तिपूर्णयात्रायै प्रार्थये।”

तस्य भावुकसन्देशं दृष्ट्वा प्रशंसकाः अपि जुबिन्गर्गं श्रद्धाञ्जलिं अर्पितवन्तः।

कांग्रेससांसदः गौरवगोगोई उक्तवान्— “असमवासिनां हृदयेषु अतीव प्रियः जुबिन्गर्गः अकालमृत्युनि गतः इति अविश्वसनीयं वार्तां श्रुत्वा अहं अतीव मर्माहतः अभवम्।

सः स्वस्य सामाजिकमाध्यमे लिखितवान् यत् “जीवनस्य प्रत्येकक्षणाय शब्दान् सुरांश्च रचयन् महत् सङ्गीतसाधकः असमवासिनां हृदयप्रियः जुबिन्गर्गः अकालमृत्युनि गतः इति वार्तां श्रुत्वा अहं अतीव दुःखितः। तस्य एषः अकालनिधनं केवलं असमराज्यस्य न, अपि तु समग्रस्य भारतसंगीतजगतः अपि अपूरणीयहानिः।

अस्य निधनस्य कारणम् अपि सः उक्तवान्— “सिंगापुरे आयोज्यमाने चतुर्थे ‘नॉर्थ-ईस्ट-इण्डिया-फेस्टिवल्’ इत्यस्मिन् भागं गृहीत्वा गतः जुबिन्दा स्कूबा-डाइविङ् समये दुर्घटनां प्राप्त्वा अकालं मरणं प्राप्तः।”

सः प्रार्थितवान्— “तस्य दिवङ्गतात्मनः शान्तये प्रार्थये। भगवान् तस्य शोकाकुलपरिवाराय, अस्माकं सर्वेषां असमवासिनां च एषां अपूरणीयहानिं सहनाय शक्तिं ददातु।”

---------------

हिन्दुस्थान समाचार