Enter your Email Address to subscribe to our newsletters
भारतस्य रक्षा-मन्त्री राजनाथः अवदत् — “भारतं स्वपार्श्वराष्ट्रैः सह सम्बन्धेषु भाग्यशालिनं नासीत्।”
नवदेहली,19 सितम्बरमास: (हि.स.)। रक्षामन्त्री राजनाथसिंहः १९६५ तमस्य भारत-पाकिस्तान-युद्धस्य षष्टितमे वर्षे पूर्णे साउथ्-ब्लॉक्-स्थले तस्मिन् युद्धे सहभागीभूतैः अधिकाऱिभिः सैनिकैः सह संवादं कृतवान्। सः अवदत् — “भारतं पार्श्वराष्ट्रैः सह सम्बन्धेषु कदापि भाग्यशालिनं नासीत्, किन्तु वयं तद् नियतिरूपेण न स्वीकृतवन्तः। राष्ट्रस्य वास्तविकं भाग्यं कृषिक्षेत्रेषु, कारखानेषु, प्रयोगशालासु, रणभूमौ च प्रवाहितेन स्वेदेन निर्मीयते। भारतः स्वभाग्यं परेषां विश्वासे न स्थापयति, किन्तु स्वयमेव रचयति। अस्य उदाहरणं वयं पुनः ‘ऑपरेशन-सिन्दूर’ इत्यस्मिन् दृष्टवन्तः।”
सः अपि उक्तवान् — “१९६५ तमः युद्धः लघुसंघर्षः नासीत्, किन्तु भारतस्य शक्तेः परीक्षा आसीत्। तस्मिन् काले पाकिस्तान: मन्यते स्म यत् अवैध-आक्रमणैः वा गुरिल्ला-युद्धैः भारतं भीषयेत्। किन्तु अस्यां भूमौ जन्मप्राप्तः प्रत्येकः सैनिकः एतद्भावनया संवर्धितः यत् किंचिदपि घटितं, परन्तु राष्ट्रस्य सार्वभौमत्वे अखण्डत्वे च कदापि आघातः न भविष्यति। युद्धः केवलं रणभूमौ न लीयते, किन्तु तस्य विजयः सम्पूर्णराष्ट्रस्य सामूहिक-संकल्पस्य परिणामः भवति। यद्यपि भारतं स्वपार्श्व-राष्ट्रैः सह भाग्यशाली नासीत्, तथापि स्वनियतेः निर्माणं वयं स्वयमेव कृतवन्तः। तदस्य ताजं प्रमाणं ‘ऑपरेशन-सिन्दूर’।”
राजनाथः १९६५ तमस्य युद्धस्य वीरैः सह संवादे अपि अवदत् — “वयं पहलगामघटनां न विस्मृतवन्तः। सा घटना अस्माकं हृदयं भारं करोति, मनः च कोपेन पूरयति। किन्तु सा अस्माकं मनोबलं न खण्डितवती। वयं ‘ऑपरेशन-सिन्दूर’ इत्यस्मिन् शत्रून्प्रति अस्माकं प्रतिरोधस्य दृढतां शक्तिं च प्रदर्शितवन्तः। अस्माकं समग्र-समूहस्य करिश्मणा प्रमाणीकृतं यत् विजयः अद्य अपवादः न, किन्तु 'अभ्यासः’ जातः। एष: अभ्यासः सर्वदा धारणीय:।”
सः स्मारितवान् — “१९६५ तमस्य तस्मिन् कठिनकाले सर्वत्र अनिश्चितता आसीत्। तस्मिन्नवेले प्रधानमन्त्रिणा लालबहादुरशास्त्रिणा न केवलं निर्णायकं राजनीतिकं नेतृत्वं दत्तं, अपि तु सम्पूर्णराष्ट्रस्य मनोबलं उच्चतमं स्तरं प्रति नीतम्। तेन ‘जय जवान्, जय किसान’ इत्येतादृशं नादं दत्तम्, यः अद्यापि अस्माकं हृदये प्रतिध्वनति। अस्मिन् नादे वीरसैनिकानां सम्मानः, अन्नदातॄणां गौरवः च समाहितः।”
रक्षामन्त्री अवदत् — “१९६५ तमस्य युद्धकाले अनेकघटनाः इतिहासे अंकिताः। फिलोरायुद्धे अस्माकं सशस्त्रबलानां पराक्रमः पाकिस्तानस्य धैर्यं भङ्क्तवान्। चाविण्डायुद्धं तु जगतः महत्तम-टैंक्-युद्धेषु गणितम्। तत्रापि प्रमाणीकृतं यत् युद्धः टैंक इत्यनेन न, किन्तु धैर्ये दृढनिश्चये च जयति। तस्मिन् युद्धे वीरः अब्दुलहमिद् नामकः सैनिकः स्वसाहसमात्रेण टैंक्-श्रेणीं दग्धवान्। तस्य वीरता अस्मान् शिक्षयति यत् अतीवकठिनेषु परिस्थितिषु अपि साहस-संयम-देशभक्तीनां संगमः असम्भवं सम्भवम् करोति।”
----------------
हिन्दुस्थान समाचार / अंशु गुप्ता