Enter your Email Address to subscribe to our newsletters
पूर्णिया, 19 सितंबरमासः (हि.स.)।
पूर्णियाजनपदस्य अमौरविधानसभाया बैंसाखण्डान्तर्गतं मजगामपञ्चायते विद्यमाने दुर्गामन्दिरे प्रातःषट्वादनिकटे असामाजिकतत्त्वैः माँदुर्गायाः प्रतिमा भग्ना। प्रायः प्रातः ५ तः ६ वादनपर्यन्ते एषा घटना निष्पादिता। अस्याः घटनायाः वार्ता प्रसृतायामेव ग्रामेभ्यः आक्रोशः प्रस्फुटितः, विशालसंख्यकजनाः मन्दिरपरिसरे समागता अपि।
अस्मिन् प्रकरणे एकः युवकः निगृहीतः, सः मजगामपञ्चायतभवने स्थापितः अस्ति। अनगढ़-थाना रौटा-थानयोः च पुलिस-कार्यालयभ्यां अधिकारीगणः घटनास्थले उपस्थिताः स्थितिं नियन्त्रणं कर्तुं प्रयतन्ते। स्थानीयजनाः कथयन्ति यत् दुर्गाप्रतिमा सम्पूर्णरूपेण क्षतिग्रस्ताभूत्।
ग्रामिणानाम् आरोपः अस्ति यत् अस्याः घटनायाः निष्पादनार्थं यथायोग्यं योजनं कृतम्, अस्मिन् च बहवः बाह्यजनाः संलग्नाः, ये च समीपग्रामे चिलाना इत्यस्मिन् स्थले निवासं कुर्वन्ति स्म।
एतस्मिन् स्थले सम्प्रति सप्तभ्यः भिन्नभिन्नभ्यः थानाभ्यः पुलिस-अधिकारीणां उपस्थिति अस्ति। सहैव एसडीएम-एसडीओ अपि स्थलमागत्य परिस्थितिं निरीक्षन्ति च।
---------------
हिन्दुस्थान समाचार