Enter your Email Address to subscribe to our newsletters
कृषेः कृषकाणां च सहायिकाः मधुमक्षिकाः।
प्रयागराजम्, २० सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य योगिसर्वकारा कृषकाणाम् आर्थिकस्थितिं कृषिकार्यम् च प्रवर्धयितुं सह रोजगारपरकयोजनासु बलं ददाति। अभियानस्य अन्तर्गते मधुमक्षिकापालनस्य प्रवर्धनाय त्रैमासिकं निःशुल्कं प्रशिक्षणं दीयते। प्रयागराजे १६ सितम्बरतः आरब्धे मधुमक्षिकापालनप्रशिक्षणे ५२ अभ्यर्थिनः सन्ति। एषा सूचना शनिवासरे मुख्योद्यानाध्यक्षा जगदीशप्रसादेन प्रदत्ता।
तेन उक्तं यत् अस्मिन् प्रशिक्षणकार्यक्रमे १३ महिलाः ३९ पुरुषाः च त्रिमास (९० दिनानि) पर्यन्तं प्रशिक्षणं चन्द्रशेखर-आजाद-उद्यानक्षेत्रस्थिते मधुमक्षिकापालनप्रशिक्षणकेन्द्रे गृह्णन्ति। सम्पूर्णं प्रशिक्षणं मौनविशेषज्ञः सुरेशकुमारः करोति।
उद्यानाधिकार्यः मौनविशेषज्ञः सुरेशकुमारः अवदत्— मधुमक्षिकापालनं अनुपूरककृष्युपक्रमरूपेण महत्त्वपूर्णं स्थानं धारयति। मधुमक्षिकाः प्रत्यक्षेण अप्रत्यक्षेण च कृषकाणां दैनिकजीवने तेषाम् आर्थिकायवृद्धौ च सहायिकाः भवन्ति।
मधुमक्षिकाभ्यः मधु-उत्पादनसहितं कृषौ परपरागणेन वृक्षानां जीविता उत्पादने च वृद्धिर्भवति तथा पर्यावरणसन्तुलने अपि एषां महत्त्वपूर्णं योगदानम् अस्ति। कृषकाणाम् आयवृद्धये कृषेः सह अन्ये अपि अनुपूरकव्यवसायाः अंगीकरणीयाः, येषु न्यूनभूमिः न्यूनपूँजिः च अपेक्ष्यते। मधुमक्षिकापालनं अनुपूरककृष्युपक्रमरूपेण स्वीकृत्य न्यूननिवेश न्यूनकाले च अधिकमायं प्राप्तुं शक्यते। मधुमक्षिकापालनस्य प्रोत्साहनाय प्रवर्धनाय च वैज्ञानिकरीत्या मौनपालनं करणीयम् इत्यस्य प्रशिक्षणं दीयते। एतत् प्रशिक्षणं ९० दिनानि भविष्यति। एषः प्रशिक्षणक्रमः १५ दिसम्बरदिनाङ्के समाप्तः भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani