आतंकवादेन युक्तेषु प्रकरणेषु घाट्यां अष्टसु स्थानेषु सीआईके करोति परिशीलनम्
श्रीनगरम्, 20 सितंबरमासः (हि.स.)। जम्मू-कश्मीर-पुलिसविभागस्य प्रतिविदेशगोपनशाखा काउण्टर इण्टेलिजेन्स् कश्मीर (सीआईके) इत्याख्या शनिवासरे आतंकवादेन सम्बद्धे एकस्मिन् प्रकरणे उपत्यकायां अष्टसु स्थलेषु आक्रमणं कृतवती।अधिकारिणः अवदन् यत् अन्वेषणक्रमेण सी
आतंकवादेन युक्तेषु प्रकरणेषु घाट्यां अष्टसु स्थानेषु सीआईके करोति परिशीलनम्


श्रीनगरम्, 20 सितंबरमासः (हि.स.)। जम्मू-कश्मीर-पुलिसविभागस्य प्रतिविदेशगोपनशाखा काउण्टर इण्टेलिजेन्स् कश्मीर (सीआईके) इत्याख्या शनिवासरे आतंकवादेन सम्बद्धे एकस्मिन् प्रकरणे उपत्यकायां अष्टसु स्थलेषु आक्रमणं कृतवती।अधिकारिणः अवदन् यत् अन्वेषणक्रमेण सीआईके-शाखया उपत्यकायाम् अष्टसु स्थलेषु तलाशि-कार्यं प्रवर्तते। ते अपि अवदन् यत् श्रीनगर-बारामूला-अनन्तनाग-कुपवारा-पुलवामा-शोपियाँ इत्येतेषु जनपदेषु अन्वेषणं सम्पन्नं भवति।अधिकारिणां वचनानुसारं एषा परिशीलता सीआईके-पुलिसस्थानके निबद्धायाः एफआईआर संख्या ३/२०२३ इत्यस्य प्रकरणस्य अन्वेषणाय सक्षमन्यायालयात् प्राप्तेन परिशीलन-आदेशेन कृतम्।

हिन्दुस्थान समाचार