उत्तम पुस्तकानां पठनस्वभावः भवेत् - योगीआदित्यनाथः
मुख्यमंत्री अकरोद्गोमती पुस्तक महोत्सवस्य शुभारंभः लखनऊ, 20 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे लखनौविश्वविद्यालयस्य प्राङ्गणे भारतीय राष्ट्रियपुस्तकन्यासेन आयोजिते गोमती–पुस्तकमहोत्सवे २०२५ शुभारम्भं कृतवन्तः।
गोमती पुस्तक महोत्सव में मुख्यमंत्री योगी आदित्यनाथ


मुख्यमंत्री अकरोद्गोमती पुस्तक महोत्सवस्य शुभारंभः

लखनऊ, 20 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे लखनौविश्वविद्यालयस्य प्राङ्गणे भारतीय राष्ट्रियपुस्तकन्यासेन आयोजिते गोमती–पुस्तकमहोत्सवे २०२५ शुभारम्भं कृतवन्तः। अस्मिन् अवसरि उच्चशिक्षामन्त्री योगेन्द्रउपाध्यायः, राष्ट्रीयपुस्तकन्यासस्य अध्यक्षः प्रो॰ मिलिन्दः सुधाकरः मराठे च प्रमुखतया उपस्थिताः।

शुभारम्भसमये भाषमाणः मुख्यमन्त्री अवदत्— भारतीयमनीषायाः ज्ञानस्य अवधारणा अत्यन्तं विशालाऽस्ति। वयं शब्दं ब्रह्म इत्येव मन्यामहे। ब्रह्मैव सत्यं। अत एव भारतीयऋषिः वदति—विचाराः कदापि न म्रियन्ते। अस्माकं खलु श्रेष्ठः सहचरः अस्ति उत्तमा पुस्तिका। अस्माभिः सामूहिकतया उत्तमानां पुस्तकानां पठनस्याभ्यासः करणीयः। युवानः यदि प्रतिदिनं षट् घण्टान् सामाजिकमाध्यमे व्ययन्ति, तर्हि एकं घण्टाम् अपि रचनात्मकपुस्तकं पठेयुः चेत् जीवनस्य कल्याणं साध्येत।

ते अपि अवदन्—पठनं प्रगमनं च भारतस्य परम्परा आसीत्। भारतदेशः विश्वाय विश्वविद्यालयश्रृंखलाम् अददात्। तक्षशिला–विश्वविद्यालयः, यः अधुना पाकिस्तानदेशे अस्ति, आक्रान्तैः विनाशितः। अस्माभिः मौलिकग्रन्थरचनायाम् एव चिन्तनं प्रयासः च करणीयः। अस्माकं शिक्षाकेन्द्राणि धार्मिककेन्द्राणि च तस्य आधारं भविष्यन्ति। महर्षिः वाल्मीकि रामायणं महाकाव्यरूपेण सर्वेभ्यः दत्तवान्। तुलसीदासेन रामचरितमानसस्य रचना कृत्वा सः अमरः अभवत्।

उच्चशिक्षामन्त्री योगेन्द्रउपाध्यायः अवदत्—युवावर्गः केवलं डिजिटलमाध्यमेन न प्रेक्षितव्यः, अपि तु मुद्रितपुस्तकानां प्रति अपि प्रेरयितव्यः। पुस्तिकाः ज्ञानवर्धकाः भवन्ति, मार्गदर्शकाः च। गोमतीपुस्तकमहोत्सवः पारम्परिकज्ञानस्य दानं करणाय प्रभावी साधनम् अस्ति।

राष्ट्रीयपुस्तकन्यासस्य अध्यक्षः प्रो॰ मिलिन्दः सुधाकरः मराठे अवदत्—वाचनसंस्कृतिं वर्धयितव्यम्। तस्मात् समाजः ज्ञानवान् भविष्यति। विचारभावनाः पुस्तकानां माध्यमेन लोकेषु प्राप्यन्ते। वाचनमाध्यमेन सहस्रशः जनानां जीवनं ज्ञातुं शक्यते। भारतः पठिष्यति चेत् भारतः वृद्धिं प्राप्स्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदीना उक्तम्। पुस्तकार्थं पठनं परमावश्यकम्।

अस्मिन् महोत्सवे मुख्यमन्त्रिणः सलाहकारः अवनीशकुमारः अवस्थी, लखनौ–विश्वविद्यालयस्य कुलपत्नी प्रो॰ मनुका खन्ना, एनबीटी–निदेशकः युवराजमलिकः, अखिलभारतीय–साहित्यपरिषदः राष्ट्रीयाध्यक्षः डॉ॰ सुशीलचन्द्रः त्रिवेदी, अखिलभारतीय–विद्यार्थिपरिषदः राष्ट्रीयाध्यक्षः राजशरणः शाही, अभाविप–प्रान्तसंघटनमन्त्री अंशुलविद्यार्थी च प्रमुखतया उपस्थिताः आसन्।

-----------

हिन्दुस्थान समाचार