Enter your Email Address to subscribe to our newsletters
- मुख्यमंत्री योगी नारी सुरक्षा, सम्मानाय स्वावलम्बनाय समर्पित मिशन शक्तेः-5.0 कृतवान् शुभारम्भम्
लखनऊ, 20 सितम्बरमासः (हि. स.)। मुख्यमन्त्री योगी आदित्यनाथेन शनिवासरे ‘मिशनशक्ति–५.०’ अभियानस्य शुभारम्भः कृतः।
मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे लोकभवनसभागारे नारी–सुरक्षा–सम्मान–स्वावलम्बनाय समर्पितं महत्त्वाकाङ्क्षि अभियानं ‘मिशनशक्ति–५.०’ नामकं भव्येन विधिना उद्घाटितवान्। अस्मिन् अवसरि भाषमाणः मुख्यमन्त्री अवदत्—पूर्वं कन्याः असुरक्षिता आसन्, अद्य तु स्वमार्गं स्वयमेव निर्मायन्ते। नारीसम्मानः मम प्राथमिकता अस्ति। २०१७ तः परं प्रान्ते स्त्रीणां स्थितौ अभूतपूर्वः परिवर्तनः जातः। यदि शासनस्य नीयतिः निर्मला भवति, तर्हि योजनाः स्वयमेव मार्गं निर्माति।
मुख्यमन्त्री योगी आदित्यनाथः प्रदेशस्य सर्वेषु १६४७ थानेषु नवनिर्मितानां मिशनशक्ति–केन्द्राणां उद्घाटनं बटनं दाबित्वा कृतवान्। तेनैव SOP–पुस्तिकाः, बुकलेट्, ‘सशक्तनारी–समृद्धप्रदेश’ फोल्डरश्च विमोचिताः। अस्मिन् अवसरि विडियो–सम्मेलनद्वारा सर्वेषां जनपदेषु अधिकारिणां मन्त्रिणां च सहभागिता अभवत्।
मिशनशक्तेः पञ्चमः चरणः—नवीनप्रारम्भः
मुख्यमन्त्री अवदत्—पञ्चवर्षपूर्वं २०२० तमे वर्षे अस्य अभियानस्य आरम्भे लोकेषु संशयः आसीत्—कथं भविष्यति, कथं च चलिष्यति, किं तस्य मूलविषयः भविष्यति इत्यादि। परन्तु मिशनशक्ति इदानीं नारी–सुरक्षा–सम्मान–स्वावलम्बनैः सम्बद्धं कृत्वा नारी–गरिमानुसारं ढालितम्। अस्याः योजनायाः सकारात्मकाः परिणामाः अद्य सर्वेषां सम्मुखे सन्ति। एषः अभियानः नारीं सुरक्षा–सम्मान–स्वावलम्बनस्य मार्गे निरूपितवान्, यं शीघ्रं अग्रे चालयामः।
यूपी–पुलिसे स्त्रीणां सहभागे क्रान्तिकारी–परिवर्तनम् : योगी
मुख्यमन्त्री अवदत् यत् स्वतन्त्रतायाः आरम्भात् २०१७ पर्यन्तं पुलिसे केवलं १०,००० स्त्रीकार्मिकाः आसन्। २०१७ तः अधुना यावत् एषां संख्या ४४,००० अधिका अभवत्। प्रत्येके नियोगे २०% स्त्रीणां सम्मिलनम् अनिवार्यम् अस्ति। समये प्रशिक्षणं च सुनिश्चितं भवति। इदानीन्तने ६०,२०० पुलिसकार्मिकानां नियोगे १२,००० अधिकाः स्त्रियः सम्मिलिताः, या: प्रशिक्षणं प्राप्नुवन्ति। एषः ‘मिशन–रोजगार’ परिणामः अस्ति। पूर्वं २०१७ मध्ये प्रशिक्षणक्षमता केवलं ३,००० आसीत्, अधुना तु ६०,००० अधिका जाताऽस्ति।
शिक्षा–विभागे अपि स्त्रीणां सहभागः वर्धितः
मुख्यमन्त्री अवदत्—शिक्षा–विभागे अपि स्त्रीणां नियोगः प्रवर्धितः। २०१७ पूर्वं प्रशिक्षणस्य न्यूनता आसीत्। अधुना तु उत्तरप्रदेशे एव ६०,२०० पुलिसकार्मिकाणां प्रशिक्षणं सम्भवम्। बेसिकशिक्षापरिषद्–विद्यालयेषु १.६० कोटि बालकाः पठन्ति, २०१७ पूर्वं तु ७०–७५% कन्याः नगे पादेन जीर्णवस्त्रैः विद्यालयं गच्छन्ति स्म। अद्य तु प्रत्येकशिशोः कृते द्वे यूनिफॉर्म्, पृष्ठपुस्तकम्, जूते, मौजे, स्वेटरश्च १,२०० रूप्यकव्ययेन प्रदत्तानि।
कन्या–सुमङ्गला योजना, सामूहिक–विवाह योजना च ऐतिहासिकं कीर्तिम् अरचयताम्
मुख्यमन्त्री अवदत्—मुख्यमन्त्री–कन्या–सुमङ्गला–योजनया कन्याजन्मात् स्नातकान्तं २५,००० रूप्यकाणि प्रदत्तानि भवन्ति। जन्मे ५,०००, वर्षे २,०००, कक्षा १–६ मध्ये ३,०००, नवम्यां ५,०००, द्वादश्यां ७,००० रूप्यकाणि दत्तानि भवन्ति। अस्याः योजनायाः लाभं २६ लाखाधिकाः कन्याः प्राप्नुवन्ति। मुख्यमन्त्री–सामूहिक–विवाह–योजनया प्रतिकन्यायै १ लाखस्य साहाय्यं दत्तम्, यत् पूर्वं पक्षपातपूर्वकं दत्तं, अधुना तु भेदभावविना दत्तम्।
सर्वासु योजनासु नारी–केन्द्रितदृष्टिकोणः
मुख्यमन्त्री अवदत्—केंद्र–राज्य–सरकारयोः योजनाः—बेटी–बचाओ, मातृ–वन्दना, उज्ज्वला, स्वच्छभारत, आयुष्मान् भारत इत्यादयः—नारी–गरिमासम्बद्धाः। उत्तरप्रदेशे ३ कोटि ग्रामीण–भूअभिलेखेषु १ कोटि अधिकानि स्त्रीणां नामानि लिखितानि। ६० लाखानां दरिद्राणां कृते आवासाः प्रदत्ताः।
स्वरोजगार–पोषाहारे च क्रान्तिः
मुख्यमन्त्री अवदत्—कोरोना–काले आरब्धा बैंकिंग–सखी योजना ४०,००० अधिकाः स्त्रियः वित्तीय–व्यवहारे संलग्नाः। पोषाहार–मिशने ६०,००० स्त्रियः प्रति–मासं ८,००० रूप्यकाणि अर्जयन्ति, २ कोटि बहिन्यः लाभं प्राप्नुवन्ति।
महिला–सुरक्षा : अपराधिनः अधुना क्षमां याचन्ते
मुख्यमन्त्री अवदत्—१ जनवरी २०२४ तः २०२५ पर्यन्तं ९,५१३ प्रकरणेषु १२,२७१ अपराधिनः दण्डिताः, १२ मृत्युदण्डेन, ९८७ आजीवनकारावासेन, ३,४५५ दशवर्षाधिककारावासेन च।
तेन ‘सशक्तनारी–समृद्धप्रदेश’ फोल्डरः विमोचितः, महिला–सुरक्षा–हेल्पलाइनः (१०९०, १८१, ११२, १९३०, १०७६, १०२, १०१, १०८, १०९८) च प्रदर्शिताः।
२१ सितम्बरम् बाइक–रैली भविष्यति। नवरात्रे मन्दिरेषु सुरक्षा–वृद्धिः भविष्यति। विद्यालय–महाविद्यालयेषु फोल्डर–वितरणं भविष्यति।
अस्मिन् अवसरे उपमुख्यमन्त्रिद्वयम्—केशवप्रसादः मौर्यः, ब्रजेशः पाठकः, महिला–कल्याण–बालविकास–मन्त्री बेबीरानी मौर्यः, महापौरः सुषमा खर्कवालः, मुख्यसचिवः दीपककुमारः, प्रमुखसचिवः गृहमन्त्रालयस्य संजयप्रसादः, MLC डॉ॰ महेन्द्रसिंहः, पुलिस–महानिदेशकः राजीवकृष्णः, अन्ये प्रशासकीय–पुलिसाधिकारीणश्च प्रमुखतया उपस्थिताः।
---------------
हिन्दुस्थान समाचार