Enter your Email Address to subscribe to our newsletters
लखनऊ,20 सितम्बरमासः (हि.स.)।सुमङ्गलम्-परिवारस्य प्रतिनिधिभिः स्वातन्त्र्यसमरे, विभाजनविभीषिकायाम्, राष्ट्ररक्षणायाम् च शहीदभूतानां ज्ञात-अज्ञात-क्रान्तिवीराणां तर्पण-श्रद्धार्पणार्थं “शहीदपितृ-श्रद्धा-नमन” नामकः अनुष्ठानः पितृपक्ष-अमावास्यायाम्, रविवासरे, लखनऊ-नगरे गोमती-तटे स्थिते हुतात्मस्मारके भविष्यति।एतत् सूचना कर्तव्या-फाउण्डेशनस्य महासचिवेन डॉ. हरनामसिंहेन प्रदत्ता।
डॉ. हरनामसिंहः शनिवासरे उक्तवान् यत् अस्मिन् अवसरि अनेकेषां सामाजिक-संस्थापनां प्रतिनिधयः, नगरस्य गणमान्य-नागरिकाश्च उपस्थास्यन्ति। ते सर्वे कृतज्ञभावेन हुतात्म-क्रान्तिवीरेभ्यः तर्पणं श्रद्धाञ्जलिं च अर्पयित्वा राष्ट्रस्य सुख-शान्ति-समृद्धीनां संकल्पं करिष्यन्ति।
अनुष्ठाने सुमङ्गलम्-सेवा-साधना-संस्थानम्, कर्तव्या-फाउण्डेशनम्, विश्व-पुरोहित-परिषद्, लक्ष्य-भारत-फाउण्डेशनम्, हमराह एक्स-एन.सी.सी. कैडेट-सेवा-संस्थानम्, लोक-संस्कृति-शोध-संस्थानम्, अक्षयवटः, पूर्वसैनिक-सेवा-परिषद्, जयति-भारत-परिवारः, बिम्ब-सांस्कृतिक-समितिः, शहीद-स्मृति-समारोह-समितिः च इत्येतेषां संस्थानां कार्यकर्तारः सहभागं करिष्यन्ति।
-------------
हिन्दुस्थान समाचार