राष्ट्रपतिद्रौपदीमुर्मू मोक्षभूमिं गयाजीं प्राप्तवती, विष्णुपदे फल्ग्वक्षयवटे च करिष्यति पिण्डदानम्।
पाटलिपुत्रम्, २० सितम्बरमासः (हि.स.)। मोक्षज्ञानयोः भूमौ बिहारराज्ये स्थिते गयायां विश्वप्रसिद्धः पितृपक्षमहोत्सवः प्रवर्तते। पितृपक्षमहोत्सवस्य मध्ये अद्य राष्ट्रपति द्रौपदीमुर्मू गयां प्राप्ता। सा राष्ट्रपति पितॄणां मोक्षकामनां कृत्वा विष्णुपदे फल्
पितरों के तर्पण के लिए बिहार के गया जी पहुंची राष्ट्रपति द्रोपदी मूर्मू


पाटलिपुत्रम्, २० सितम्बरमासः (हि.स.)। मोक्षज्ञानयोः भूमौ बिहारराज्ये स्थिते गयायां विश्वप्रसिद्धः पितृपक्षमहोत्सवः प्रवर्तते। पितृपक्षमहोत्सवस्य मध्ये अद्य राष्ट्रपति द्रौपदीमुर्मू गयां प्राप्ता। सा राष्ट्रपति पितॄणां मोक्षकामनां कृत्वा विष्णुपदे फल्ग्वक्षयवटे च पिण्डप्रदानं करिष्यति। सा प्रथमं विष्णोः चरणयोः दर्शनं कृतवती।

राष्ट्रपत्याः आगमनं प्रति सर्वत्र आरक्षकबलानां नियुक्तिः कृता। जनपदप्रशासनस्य द्वारा अपि राष्ट्रपति-आगमनं प्रति सम्पूर्णा सिद्धता कृता आसीत्। राष्ट्रपति द्रौपदीमुर्मू इत्यस्याः पैतृकग्रामः उडिशाराज्यस्य मयूरगञ्जे अन्तर्गतं ऊर्ध्वबेड़ाग्रामं नाम। राष्ट्रपति द्रौपदीमुर्मोः पितॄणां पण्डा राजेशलालकटारियारः नाम, यस्य निकटे ऊर्ध्वबेड़ाग्रामस्य पिण्डदानिनां बहीखातं विद्यते। राष्ट्रपति-पदे स्थित्वा द्रौपदीमुर्मू स्वपूर्वजपितॄणां निमित्तं पिण्डदानश्राद्धकर्मकाण्डं करिष्यति।

एतत्पूर्वं ज्ञानी जैलसिंहः अपि राष्ट्रपति-पदे स्थित्वा गयां प्राप्तवान् आसीत्, स च गयायाः दर्शनं कृतवान्। तस्मात् अन्यत् उपराष्ट्रपतेः रूपेण आर्. वेङ्कटरमणः अपि गयां प्राप्तः, पिण्डदानं च कृतवान्।

बिहारराज्ये गयायां विश्वप्रसिद्धः पितृपक्षमहोत्सवः पञ्चदशमे दिने अस्ति, यः गया-श्राद्धस्य चतुर्दशः दिवसः अपि। अस्मिन् दिने वैतरणीसरोवरस्य तीरे तर्पणं गोदानं च विशेषविधानरूपेण क्रियते। मान्यते— अस्मिन् दिने वैतरणीवेद्यां स्नानं तर्पणं च कृत्वा पिण्डदानेन एकविंशतिः कुलानां उद्धारः भवति।

हिन्दुस्थान समाचार / Dheeraj Maithani