राजस्थानप्रदेशे ‘सप्तशक्ति-कमान’ इत्यस्य महा-अभ्यासः — “अमोघ फ्यूरी”
जयपुरम्, 20 सितंबरमासः (हि.स.)। राजस्थान-थार-मरुस्थले महाजन-क्षेपण-क्षेत्रे ‘सप्तशक्ति-कमान’ द्वारा ‘अमोघ-फ्यूरी’ नामकः समन्वित-प्रक्षेपणाभ्यासः सफलतया सम्पन्नः। अस्मिन् उच्च-तीव्रता-युक्ते प्रक्षेपणाभ्यासे विविध-प्रहार-मञ्चानां मध्ये उत्कृष्टः समन्
सप्त शक्ति कमान का राजस्थान में महा-अभ्यास, ‘अमोघ फ्यूरी’


सप्त शक्ति कमान का राजस्थान में महा-अभ्यास, ‘अमोघ फ्यूरी’


जयपुरम्, 20 सितंबरमासः (हि.स.)। राजस्थान-थार-मरुस्थले महाजन-क्षेपण-क्षेत्रे ‘सप्तशक्ति-कमान’ द्वारा ‘अमोघ-फ्यूरी’ नामकः समन्वित-प्रक्षेपणाभ्यासः सफलतया सम्पन्नः।

अस्मिन् उच्च-तीव्रता-युक्ते प्रक्षेपणाभ्यासे विविध-प्रहार-मञ्चानां मध्ये उत्कृष्टः समन्वयः तालमेलश्च प्रदर्शितः। भारतीयसेनया बहुक्षेत्रीययुद्ध-परिदृश्ये स्वस्य तत्परता प्रदर्शिता, यत्र सैनिकानां शीघ्र-तैनाती, आक्रामक-भूमिकार्याणि, संयुक्त-युद्धक-अभियानानि च दर्शितानि।

जनसम्पर्काधिकारी (रक्षा) जयपुरस्थः लेफ्टिनण्ट्-कर्नल् निखिल-धवनः अवदत् यत् — “अमोघ-फ्यूरी”-नामक-अभ्यासस्य उद्देश्यं आसीत् वास्तविक-युद्ध-स्थितिषु सेनायाः युद्ध-क्षमता, समन्वयः, परिचालन-तत्परता च परीक्षणं कर्तुम्।

अस्मिन् अभ्यासे युद्धक-टङ्काः, पादाति-संग्राम-यानानि, आक्रमणकारी-आकाशयानानि, दीर्घ-परिधि-युक्तानि तोपसंत्राण-प्रणाल्यः, विहङ्गमद्रोणाः, अति-आधुनिक-शस्त्रप्रणाल्यश्च सम्मिलिताः।

अभ्यासकाले जाल-आधारित-संवेदन-सञ्चारः, आदेश-नियन्त्रण-रचना, वास्तविक-काल-निरीक्षणम्, लक्ष्यसाधन-प्रणाल्यः च प्रयोगेन साझा-परिचालन-चित्रणम् (कॉमन-ऑपरेटिंग-पिक्चर) निर्मितं, यत् सर्वेषु स्तरासु सरलतया वितरितम्।

एतासु क्षमतासु परीक्षणेन आधुनिक-युद्धभूमौ उदित-भयेषु प्रभावसमर्थं प्रतिकारशक्तिः अत्यधिकं सुदृढा जात।

“अमोघ-फ्यूरी” अभ्यासः भारतीय-सेनायाः संयुक्तता, तकनीकी-समायोजनम्, बहु-क्षेत्रीय-युद्ध-परिदृशेषु च उच्च-स्तरीयपरिचालन-तत्परता इत्यस्य सशक्तं प्रमाणम् इति निरूपितम्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani