मुख्यमंत्री डॉ. यादवेन ‘रेलवे सुरक्षा बलस्य’ स्थापना-दिवसावसरे सैनिकेभ्यः अभिनन्दनपूर्वकं शुभाशंसनं प्रदत्तम्
भाेपालम्, 20 सितंबरमासः (हि.स.)। रेलयात्रां सुगमां सुरक्षितां च कर्तुं सदैव सज्जं रेलवे सुरक्षा बलम् (आर.पी.एफ्.) इत्यस्य स्थापना-दिवसः अद्य शनिवासरे आसीत्। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवेन स्थापना-दिवसावसरे बलस्य सैनिकान् प्रति शुभाशंसनं दत
मुख्यमंत्री डॉ. यादव ने 'रेलवे सुरक्षा बल' के स्थापना दिवस पर जवानों को दी शुभकामनाएं


भाेपालम्, 20 सितंबरमासः (हि.स.)। रेलयात्रां सुगमां सुरक्षितां च कर्तुं सदैव सज्जं रेलवे सुरक्षा बलम् (आर.पी.एफ्.) इत्यस्य स्थापना-दिवसः अद्य शनिवासरे आसीत्। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवेन स्थापना-दिवसावसरे बलस्य सैनिकान् प्रति शुभाशंसनं दत्तं, तेभ्यश्च यात्रिकाणां सुखदं सुरक्षितं च गमनं सुनिश्चितं कर्तुं तेषां प्रयासानां प्रशंसा कृता।

मुख्यमन्त्रिणा डॉ. यादवेन सोशल-मीडिया ‘एक्स्’ इत्यस्मिन् माध्यमे लिखितम् यत् यशो लभस्व। साहस-सेवा-सुरक्षा इत्येषां अद्वितीयप्रतीकः ‘रेलवे सुरक्षा बलः’ (आर.पी.एफ्.) इत्यस्य स्थापना-दिवसे सर्वेभ्यः शूरवीर-सैनिकेभ्यः हार्दिकं शुभाशंसनं च। यात्रिकसेवायां निःस्वार्थभावः, रेलसंपत्तेः रक्षणे च आर.पी.एफ्.-इत्यस्य कर्तव्यपरायणता, समर्पणं, प्रतिबद्धता च सर्वथा अनुकरणीया। जय हिन्द्।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता