गुजरातस्य द्वौ नूतनौ राष्ट्रियमार्ग-परियोजनौ पर्यटनक्षेत्रे प्रोत्साहकौ भविष्यतः : नितिन गडकरी
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:14pt;}.cf1{font-family:Consolas;font-size:14pt;}.pf0{} नवदेहली, 20 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीना भावनगरम् अधिवसरे ३४२०० कोटिरूप्यका
नितिन गडकरी


body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:14pt;}.cf1{font-family:Consolas;font-size:14pt;}.pf0{}

नवदेहली, 20 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीना भावनगरम् अधिवसरे ३४२०० कोटिरूप्यकाणां विकास-परियोजनानाम् उद्घाटनं शिलान्यासं च कृतम्।

प्रधानमन्त्री नरेन्द्र मोदी शनिवासरे गुजरातस्य भावनगर-नगरे ३४२०० कोटिरूप्यकाणि मूल्यवन्तः विकास-परियोजनाः उद्घाट्य शिलान्यासं च अकुर्वन्। एते उपक्रमाः गुजरातस्य अधिसंरचनां सुदृढां कृत्वा पर्यटनं, आर्थिकविकासं च शीघ्रं प्रवर्तयिष्यन्ति।

केन्द्रीयसड़कपरिवहनमार्गमन्त्री नितिन गडकरी अवदत् यत्, प्रधानमन्त्रिणा उद्घाटिताः, शिलान्यासिताश्च ये उपक्रमाः, तेषु द्वे प्रमुखे राष्ट्रीयमार्ग-परियोजने अन्तर्भवतः। ताः एव स्टैच्यू ऑफ यूनिटी, सरदारसरोवरबन्धः, जम्बुघोडा-वन्यजीव-अभयारण्यं, रत्नमहल-स्लॉथभालूक-अभयारण्यं, शूलपनेश्वर-वन्यजीव-अभयारण्यं, पूर्णा-वन्यजीव-अभयारण्यं च इत्यादिषु पर्यटन-केन्द्रेषु सुगमं सम्पर्कं दास्यतः।

गडकरी-महाभागेन स्व-‘एक्स पोस्ट्’ मध्ये सूचितं यत्, प्रधानमन्त्रिणा राष्ट्रीयमार्ग-५६ अन्तर्गतौ द्वौ प्रमुखौ खण्डौ शिलान्यासितौ।

प्रथम-परियोजना — छोटा उदयपुरे राष्ट्रीयमार्ग-५६ अन्तर्गतः जाबुगाम-धमासिया खण्डस्य ३८.३ किलोमीटर-दीर्घः चत्वारि-मार्गीकरणम्।

द्वितीय-परियोजना — भरुच्-जिल्लायां राष्ट्रीयमार्ग-५६ अन्तर्गतः बिटाडा/मोवी-नसरपुर खण्डस्य २९.१ किलोमीटर-दीर्घः चत्वारि-मार्गीकरणम्।

एते उपक्रमाः छोटा उदयपुर, नर्मदा, भरुच्, सूरते, तापि-जनपदेषु सुदृढं सडक-संपर्कं प्रदास्यन्ति।

तेन उक्तं यत्, एताः राष्ट्रीयमार्ग-परियोजनाः केवलं परिवहनीय-सुविधां न दास्यन्ति, अपि तु पर्यटनम्, आध्यात्मिक-स्थलानां सम्पर्कं च सरलतरं करिष्यन्ति। उनाई माता-मन्दिरं यथा तीर्थक्षेत्रं यात्रार्थं सुगमं भविष्यति, धार्मिक-पर्यटनाय अपि विशेषं प्रोत्साहनं लभ्यते।

एताभिः सडकाभिः गुजरातस्य प्रमुख-पर्यावरण-पर्यटन-स्थलानां सम्पर्के सुधारः भविष्यति, तेन पर्यटकानां संख्या वृद्धिं गमिष्यति।

गडकरी-महाभागः उक्तवान् यत्, एताः परियोजनाः विशेषतया दक्षिण-गुजरातस्य आदिवासी-बहुल-प्रदेशेषु रोजगार-सृजनाय प्रेरकाः भविष्यन्ति, चिरस्थायी-आर्थिकविकासं च शीघ्रं संवर्धयिष्यन्ति। नर्मदा-जनपदं, यः आकांक्षी-जनपदम् इति निर्दिष्टः, तत्र सम्पर्के परिष्कारः स्थानीय-समुदायानां नूतन-संधीनां द्वाराणि उद्घाटयिष्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani