Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 20 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य मीरजापुरजनपदे बिरहा-गायिका सरोजसरगम नाम्नि स्त्रिया देवी-देवताभ्यः विषये आपत्तिजनकं वक्तव्यं कृतम् इति कारणेन शनिवासरे विश्वहिन्दुपरिषद् तथा बजरंगदलः संयुक्तरूपेण मुख्यमन्त्रिणं संबोधित्य ज्ञापनं नगरमजिस्ट्रेट् विनीतोपाध्यायाय समर्पितवन्तः।
ज्ञापने लिखितम् आसीत् यत् सरोजसरगम नाम्नी, राममिलनबिन्दपत्नी, सिहवानगढवा, मडिहान-थानान्तर्गत-निवासिनी, स्वस्य YouTube नामक-चैनले अपलोडिते बिरहा-गीते हिन्दूसमाजस्य आराध्या मातादुर्गा विषये अमर्यादितम् आपत्तिजनकं च भाषणं कृतवती। अस्मात् कारणात् हिन्दूसमाजे गम्भीरः आक्रोशः उद्भूतः।
तस्मात् विहिप-बजरंगदलयोः प्रतिनिधयः आग्रहं कृतवन्तः यत् तस्याः गायकायाः विरुद्धं तत्क्षणमेव दण्डनात्मकां कार्यवाहीं कृत्वा ताम् गिरफ्तारं करोतु, कठोरदण्डं च दद्यात्। अपि च चेतावनी दत्ता यत् यदि शीघ्रं प्रशासनम् उचितकार्यं न करिष्यति तर्हि ते वृहदस्तरे धरन-प्रदर्शनं कर्तुं बाध्याः भविष्यन्ति, यस्य सम्पूर्ण-जिम्मेदारी जिलाप्रशासनस्य एव भविष्यति।
अस्मिन् अवसरि जिलाध्यक्षः माता सहायः, जिलामन्त्री श्रीकृष्णसिंहः, विभागसंयोजकः प्रवीणः, सहमन्त्री अभयमिश्र-विनयौ, प्रचार-प्रसारप्रमुखः अरविन्दसारस्वतः, जिलासंयोजकः अशोकः, सहसंयोजकः पवनः, श्यामसोनी, जीतनारायणपाण्डेयः, लक्ष्मीकान्तपाण्डेयः, देवप्रकाशपाठकः, रत्नेशकुमारः, नगर-उपाध्यक्षः रोहितजैनः, नगरमन्त्री बृजेशः, प्रमोदः, सुब्रतो, विकासः, मोहितः, करणः, विवेकः, आशुतोषः इत्यादयः शताधिकाः कार्यकर्तारः उपस्थिताः आसन्।
----------
हिन्दुस्थान समाचार