गोमयेन अधुना हरित–ऊर्जा भविष्यति देहलीनगरे : रेखा गुप्ता।
नवदेहली, २० सितम्बरमासः (हि.स.)। नङ्गली–डेयरीप्रदेशे २०० टि.डी.पी. क्षमतायुक्तस्य प्रथमस्य बायोगैस्–प्लान्ट इत्यस्य उद्घाटनं शनिवासरे दिल्लीमुख्यमन्त्रिणा रेखागुप्तया कृता। अस्मिन् अवसरे सा अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रस्य मोदेः–जन्मदिने सम्प्रव
दिल्ली के नंगली डेयरी में शनिवार को बायोगैस प्लांट का उद्घाटन करती मुख्यमंत्री रेखा गुप्ता


नवदेहली, २० सितम्बरमासः (हि.स.)। नङ्गली–डेयरीप्रदेशे २०० टि.डी.पी. क्षमतायुक्तस्य प्रथमस्य बायोगैस्–प्लान्ट इत्यस्य उद्घाटनं शनिवासरे दिल्लीमुख्यमन्त्रिणा रेखागुप्तया कृता। अस्मिन् अवसरे सा अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रस्य मोदेः–जन्मदिने सम्प्रवर्तमानस्य सेवा–पक्षस्य अन्तरगतं देहलीनगरे एषा ऐतिहासिकी सौगता प्राप्ता। अस्मिन् कार्यक्रमे सांसदः कमलजीत्–सहरावत्, मन्त्री आशीषसूदः, महापौरः राजा–इकबालसिंहः, विधायकः संदीप–सहरावतः च उपस्थिताः।

मुख्यमन्त्री उक्तवती यत् अयं बायोगैस्स्थापनः केवलं गोमय–अपशिष्टयोः व्यवस्थायाः स्थायिसमाधानं न दास्यति, अपि तु सहस्रशः गौशालानां च समस्याः अपि निवारयिष्यति। अधुना गोमयात् हरित–ऊर्जा भविष्यति। पर्यावरणं शुद्धं भविष्यति, यमुनानद्याः प्रदूषणं न्यूनं भविष्यति, कृषकाः पशुपालकाः च साहाय्यं प्राप्स्यन्ति। एषा पहलः प्रधानमन्त्रिणः हरित–ऊर्जा–अभियानं प्रवर्धयन्ती देहलीं शुद्धं, आत्मनिर्भरं, हरितराजधानीं च कर्तुं निर्णायकः पादः जातः।

मुख्यमन्त्री अवदत् यत् एषः संस्थानः २०१८ तमे वर्षे आरभ्य २०२५ तमे वर्षे समाप्तः भविष्यति। केन्द्रसर्वकारेण २०१८ तमे वर्षे अस्य बायोगैस्स्थापनस्य कृते धनं दत्तम्, किन्तु आम–आदमी–पार्टी–सर्वकारः तदा च तत्कालीनः मुख्यमन्त्री अरविन्दः केजरीवालः अपि स्वकार्यक्षेत्रे स्थापनं न समाप्तवन्तः। केजरीवालेन सर्वदा कार्यं न सम्पन्नम् इति दोष: केन्द्रसर्वकाराय प्रधानमन्त्रिणे मोदीनाम्ने च आरोप्य स्वीयकार्यक्षेत्रे किञ्चित् अपि न कृतवान्। यत् गोमयं पूर्वे जनानां क्लेशस्य कारणं जातं, तदेव अस्माकं सर्वकारेण धनार्जनस्य साधनं कृतम्।

मुख्यमन्त्री उक्तवती यत् प्रतिदिनं सहस्रशः टनगोमयं देहली– नालिकानां च मध्ये प्रवह्य जलजमावं कृत्वा यमुनानद्याः प्रदूषणं करोति। अधुना अस्य बायोगैस्स्थापनस्य प्रारम्भेण एषा समस्या निराकृता। अयं संस्थानः यमुनाशुद्ध्यां मील–पत्थररूपेण सिद्धः भविष्यति।

मुख्यमन्त्री आमआदमी–पार्टी–नेतॄन् प्रधानमन्त्रिणः नरेन्द्रमोदीजन्मदिने गौविषये कृतप्रश्नानां विषये प्रत्युत्तरं दत्तवती। सा अवदत्—अस्माकं नेतारः माता–बालकं–गां च सर्वेषु राजनीतिं कुर्वन्ति। अहं तान् पृच्छामि—भवतः सर्वकारः गत–११ वर्षाणि देहलीनगरे आसीत्, किमर्थं भवद्भिः गवां विषये किञ्चित् अपि न कृतम्?”

मुख्यमन्त्री अवदत्—“अद्य प्रधानमन्त्रिणः मोदीनेतृत्वे ईमान्दार–सर्वकार: अस्ति, या चतुर्विंशतिहोरापर्यन्तं कार्यं करोति, देहली–भाजपा–सर्वकारः समस्यायाः त्वरितं समाधानं करोति। देहलीनगरे मार्गेषु याः गावः विचरन्ति, एषः–सर्वकारस्य परिणामः।

मुख्यमन्त्री अवदत्—“अद्य अस्माकं सर्वकार: देहलीनगरे सर्वेषु जनपदेषु गौशालानिर्माणाय कार्यं आरब्धवती। बायोगैस्स्थापनानि निर्मीयन्ते, सीवर–नालीनां व्यवस्था सुधार्यते, देहलीनगरे सर्वत्र पेयजलप्राप्तेः कार्येण सञ्चार्यते। पञ्चदशवर्षाणि काँग्रेस्, एकादशवर्षाणि आमआपा आगत्य गतवन्तौ। शेषेषु २७ वर्षेषु ये कार्याः न कृताः, तेषां साधनाय किञ्चित् समयः आवश्यकः। देहली–भाजपा–सर्वकारः जनाशिषेण निरन्तरं कार्यं करोति।”

हिन्दुस्थान समाचार / Dheeraj Maithani