Enter your Email Address to subscribe to our newsletters
- इन्दौरनगरस्य विशेषज्ञचिकित्सकाः स्वीयसेवाः दास्यन्ति।
इंदौरम्, 20 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरसंभागे खरगोणजिलस्य भीकनगांवविकासखण्डे ग्रामे बमनाला इत्यस्मिन् अद्य शनिवासरे संभागस्तरीयः निःशुल्कस्वास्थ्यशिविरः आयोजयिष्यते। अस्मिन् शिविरे इन्दौरनगरात् आगत्य अनुभवी चिकित्सकाः उपस्थिताः भूत्वा जनसामान्यानां स्वास्थ्यपरिक्षां चिकित्सां च करिष्यन्ति।
खरगोणजिलाधिकारी भव्या मित्तल सूचितवन्ति यत् अस्मिन् स्वास्थ्यशिविरे आधुनिकयन्त्रैः सह उच्चरक्तदाबः, कर्करोगः, मधुमेहः, दन्तरोगाः, नेत्ररोगाः इत्यादीनां परीक्षणं भविष्यति। परिक्षणानन्तरं चिन्हितरोगिभ्यः निःशुल्कोपचारस्य व्यवस्था अपि करिष्यते। शिविरे शासकीयचिकित्सालयेषु संस्थिताः विशेषज्ञचिकित्सकाः सह निजीचिकित्सालयानां चिकित्सकाः अपि स्वसेवाः प्रदास्यन्ति। अस्य अतिरिक्तं होम्योपैथी तथा आयुषमहाविद्यालयानां चिकित्सकाः अपि उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani