Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 20 सितंबरमासः (हि.स.)।
तीर्थनगर्याः हरिद्वारस्य निवासिनी दिव्यांशी वर्मा नाम्नी कन्या दिल्लीनगर्यां हरिद्वारस्य नाम ख्यातिं प्रापयत्। दिल्ली-विश्वविद्यालयस्य साउथ-कैम्पस इत्यस्मिन् स्थिते शहीदभगतसिंह-आयतने जातेषु छात्रसंघनिर्वाचनेषु दिव्यांशी वर्मा उपाध्यक्षपदे विजयं प्राप्तवती।
उपनगर्याः ज्वालापुरक्षेत्रे पीठ-बाजार-प्रदेशे वसन्त्या दिव्यांश्या वर्मायाः अस्मिन् विजयसमये मुख्यमंत्री पुष्करसिंहधामी, सांसदः अनिलबलूनी, राज्य- मन्त्री दीप्ती रावत् इत्यादयः अनेकाः राजनेतारः अधिकारीणश्च तस्याः उज्ज्वलभविष्याय शुभाशंसाः कृत्वा अभिनन्दनं दत्तवन्तः।
दिव्यांश्याः वर्मायाः पितामहः स्वर्गीयः मधुकान्तप्रेमी वरिष्ठः पत्रकारः, लोकतन्त्रसेनानी च आसीत्। तस्याः पिता अवनीशप्रेमी अपि पत्रकारः अस्ति।
हिन्दुस्थान समाचार