बीएचयू कृषि विज्ञान संस्थानाय लब्धः क्लैरिवेट रिसर्च एक्सीलेंसपुरस्कारः,कुलपतिरददात् वर्धापनानि
—क्लैरिवेट उत्कृष्टता सम्मानने कृषि विज्ञान संस्थानस्य द्विगुणिता उपलब्धता, संस्थानाय व्यक्तिगत श्रेणिषु लब्धः पुरस्कारः। वाराणसी,21 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां स्थितस्य काशिहिन्दुविश्वविद्यालयस्य कृषि–विज्ञान–संस्थानं क्लैरिवेट्–इ
सम्मान समारोह


—क्लैरिवेट उत्कृष्टता सम्मानने कृषि विज्ञान संस्थानस्य द्विगुणिता उपलब्धता, संस्थानाय व्यक्तिगत श्रेणिषु लब्धः पुरस्कारः।

वाराणसी,21 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां स्थितस्य काशिहिन्दुविश्वविद्यालयस्य कृषि–विज्ञान–संस्थानं क्लैरिवेट्–इण्डिया–रिसर्च्–एक्सीलेंस्–साइटेशन–अवार्ड् २०२५ प्राप्तवान्। एषः पुरस्कारः संस्थानस्य अनुसन्धाने अग्रणी–योगदानाय प्रदत्तः। वनस्पतिशास्त्रविभागस्य आचार्यः प्रो॰ नवलकिशोरदुबे इत्यस्मै व्यक्तिगत्–श्रेण्यां कृषिविज्ञान–क्षेत्रे रिसर्च्–एक्सीलेंस्–अवार्ड् प्रदत्तः। कृषि–विज्ञान–संस्थानस्य निदेशकः प्रो॰ यू॰पी॰सिंहः, प्रो॰ एन॰के॰दुबे च १९ सितम्बर् दिनाङ्के नवी–दिल्ली–नगरे आयोजिते भव्ये समारोह उपरि एषः पुरस्कारः स्वीकृतवन्तौ।

संस्थानस्य एतादृशं सम्मानं प्राप्ते विश्वविद्यालस्य कुलपतिः प्रो॰ अजितकुमारचतुर्वेदी अभिनन्दनं दत्तवान्। कृषिक्षेत्रे बीएचयू–संस्थानस्य योगदानं प्रशंसन् सः अवदत् यत् विश्वविद्यालयः दीर्घकालपर्यन्तं कृषिविज्ञानक्षेत्रे महत्वपूर्णं योगदानं दत्तवान् अस्ति। अस्माकं कृषि–विज्ञान–संस्थानं शिक्षणम् अनुसंधान–क्रियाः च परिवर्तनकारिण्यः कृतवन्तः, येन पूर्व–उत्तरप्रदेश, बिहार, पश्चिमबंगाल, झारखण्ड, ओडिशा–प्रदेशेषु कृषकसमुदायः लाभान्वितः। अस्माभिः गोधूम, धान्यं, यवः, मसूरं च उच्चफलप्रदाः अनेका: बीजप्रकाराः विकसिताः। तस्मात् सह त्रयः लोकप्रियाः ग्लैडिओलस्–प्रकाराः अपि संस्थानेन विकसिताः।

कुलपतिः अवदत् यत् अस्माभिः विकसिताः उल्लेखनीयाः धान्यप्रकाराः सन्ति—एचयूआर ९१७, मालवीय–मनीला–सिंचित–धान–१ इत्यादयः। गोधूमस्य मूङ्गस्य च बीजप्रकारेषु एचयूडब्ल्यू २३४, मालवीय–जनकल्याणी इत्येतौ विशेषतः प्रशंसनीये।

विश्वविद्यालयस्य जनसम्पर्काधिकारी अवदत् यत् अयं पुरस्कारः क्लैरिवेट्–संस्थायाः इन्स्टिट्यूट् फॉर साइण्टिफिक् इन्फॉर्मेशन इत्यस्मात् विशेषज्ञपैनलेन चयनितः। २०१९–२०२४ कालावधौ वेब् ऑफ् साइन्स् कोर कलेक्शन, इन्साइट्स् बेंचमार्किंग् एण्ड् एनालिटिक्स् इत्येभ्यः प्राप्तानां आँकडानां आधारेण प्रकाशितेषु शोधपत्रेषु साइटेशन–संख्यादयः मात्रात्मकाः बिब्लियोमेट्रिक–विश्लेषणाः, गुणात्मकसमीक्षा च निर्णायकानि आसन्।

एषः सम्मानः काशिहिन्दुविश्वविद्यालयेन कृषिविज्ञान–क्षेत्रे सम्पन्नं उच्चगुणवत्तायुक्तं वैज्ञानिकानुसंधानं प्रभावकारी च प्रकाशनानि परिज्ञापयति। संस्थानं च भारतस्य कृषिनवोन्मेषे उत्कृष्टतायाः अग्रणीस्थानं प्राप्तवती।

दीर्घवर्षाणां निष्ठया नवोन्मेषी–अन्वेषणैः कृषिविज्ञानस्य उन्नत्यर्थं संस्थानस्य अनुसन्धानकर्तृभिः अनुसंधानगुणवत्ता, वैश्विकप्रभावश्च आदर्शरूपेण स्थापितः। तेषां कार्यं न केवलं शैक्षिकविमर्शं समृद्धयति, अपि तु समुदायान् सशक्तयति, सतत–विकासस्य भविष्यं च आकारयति। एषा सिद्धिः भविष्ये अपि अनुसन्धानकर्तॄन् प्रेरयिष्यति यत् ते कृषिक्षेत्रे उत्कृष्टतायै निरन्तरं स्वं योगदानं ददतु।

---------------

हिन्दुस्थान समाचार