बदरीनाथधाम्नि ब्रह्मकपालस्थले सर्वपितृअमावास्यायां तर्पणार्थं जनसमूहः समागतः
देहरादूनम्, 21 सितंबरमासः (हि.स.)। श्रीबदरीनाथधाम्नि स्थिते ब्रह्मकपाले श्राद्धपक्षस्य अन्तिमदिने बहुसंख्यकाः देश-विदेशसमागताः श्रद्धालवः धामं प्राप्तवन्तः पूर्वजानां श्राद्धतर्पणं कृतवन्तश्च। सर्वान् पितृजनान् स्मृत्वा श्रद्धाञ्जलिं दत्तवन्तः। एतेन
बद्रीनाथ में पितरों को तर्पण करते श्रद्धालु।


देहरादूनम्, 21 सितंबरमासः (हि.स.)। श्रीबदरीनाथधाम्नि स्थिते ब्रह्मकपाले श्राद्धपक्षस्य अन्तिमदिने बहुसंख्यकाः देश-विदेशसमागताः श्रद्धालवः धामं प्राप्तवन्तः पूर्वजानां श्राद्धतर्पणं कृतवन्तश्च। सर्वान् पितृजनान् स्मृत्वा श्रद्धाञ्जलिं दत्तवन्तः। एतेन सह सप्तमे दिनाङ्के सितम्बरमासस्य आरब्धः पितृपक्षः अद्य समापितः।

बदरीनाथ–केदारनाथमन्दिरसमितेः माध्यमप्रभारी डा॰ हरीशगौरः उक्तवान् यत् बदरीनाथधामे पितृपक्षे समये अष्टचत्वारिंशत्सहस्राधिकाः श्रद्धालवः दर्शनं कृतवन्तः। कपाटोद्धाटनात् अद्यावधि १३,६२,२७८ (त्रयोदशलक्षे द्विसप्ततिद्विसहस्राष्टशतअष्टसप्ततिः) श्रद्धालवः दर्शनं कृतवन्तः। सोमवासरे २२ सितम्बरदिनाङ्के बीकेटीसी समितिः अपि धामे शारदीयनवरात्रपर्वणि विशेषपूजनं करिष्यति। मन्दिरपरिसरे घटस्थापनया सह नवदिनानि महानवमी २ अक्टूबरपर्यन्तं मातरं दुर्गां सम्यक् पूजयिष्यति।

ब्रह्मकपाले अद्य सर्वपितृअमावास्यायां जनसञ्चारः जातः। जनाः पवित्रायां अलकनन्दायां गान्धीघाटे स्नानं कृत्वा पितृणां श्राद्धतर्पणं च कृतवन्तः। सर्वपितृअमावास्यायां पितॄन् स्मृतवन्तः। ब्रह्मकपालस्य वरिष्ठतीर्थपुरोहितः वीरेंद्रहटवालः उक्तवान् यत् सर्वपितृअमावास्यायाः विशेषं महत्वं विद्यते। अस्मिन् दिने ब्रह्मकपाले ज्ञात-अज्ञाताः सर्वे पितृजनाः श्राद्धेन पूजिताः, येषां श्राद्धतिथिः न ज्ञायते अथवा यत् अपि न ज्ञायते यत् अमुकस्य मृत्युः कस्यां तिथौ अभवत्। एषः दिवसः महालयश्राद्ध इति अपि प्रसिद्धः। सर्वपितृअमावास्यायां दिवसे सर्वे पितरः अस्मात् भुवनात् निर्गत्य पुनः सद्गतिं लब्ध्वा परलोकं प्राप्नुवन्ति।

अद्य अस्मिन्नेव अवसरि ब्रह्मकपाले तीर्थपुरोहितः वीरेंद्रहटवालः, संजयहटवालः, सुधीरहटवालः, अरविन्दहटवालः, प्रमोढहटवालः, श्रीबदरीशपण्डापञ्चायताध्यक्षः प्रवीणध्यानी, उपाध्यक्षः सुधाकरबाबुलकरः, सचिवः रजनीशमोतीवालः, कोषाध्यक्षः अशोकटोडरिया, तीर्थपुरोहितः रमेशरैवानी, सुब्रांशुजोशी, प्रियांशुबाबुलकरः इत्यादयः उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता