Enter your Email Address to subscribe to our newsletters
तस्मिन् अवसरे कार्यक्रमस्य लोगोऽपि अनावरणं कृतम्।
एषा अल्ट्रा मैराथन दशसहस्रतः (10,000) पञ्चदशसहस्र (15,000) चरणपर्यन्त ऊर्ध्वश्रेणौ आयोज्यते।
देहरादूनम्, 21 सितंबरमासः (हि.स.)। उत्तराखण्डराज्यस्य मुख्यमंत्री पुष्करसिंह धामी रविवासरे मुख्यमंत्री आवासात् आदि कैलाश परिक्रमा रन (अल्ट्रा मैराथन) इत्यस्य प्रोमो रनस्य फ्लैग ऑफ् कृतवन्तः। अस्मिन् अवसरे आदि कैलाश मैराथनस्य लोगोऽपि अनावरणं कृतम्। ते उक्तवन्तः यत् एषा प्रतियोगिता राज्यस्य प्राकृतिक-सांस्कृतिक धरोहरायाः राष्ट्रीय-अन्तरराष्ट्रीय स्तते नूतनं प्रतिरूपं प्रदास्यति। राज्यस्थापने 25वर्षस्य पूर्णत्वस्य उपलक्ष्ये 2 नवम्बर 2025 तमे दिनाङ्के गूंजी ग्रामात् आदि कैलाशमैराथनम् आयोजिता भविष्यति।
मुख्यमन्त्रिणः उक्तवन्तः यत् एषा आयोजनं साहसिकं च शीतकालीनपर्यटनं प्रवर्द्धयितुं, युवानां स्वस्थजीवनाय प्रेरयितुं, तथा नशामुक्त उत्तराखण्डसंकल्पं पूर्तये कृतं भविष्यति। एषा अल्ट्रा मैराथन 10,300–15,000 फिट् ऊर्ध्वश्रेणौ आयोज्यते। ते अनया अपि उक्तवन्तः यत् उत्तराखण्डस्य राज्यस्थापना रजतजयंती वर्षे 2 नवम्बर तमे दिनाङ्के व्यासघाट्यां आदि कैलाश मैराथन आयोजिता भविष्यति। एषा पहलः सीमावर्ती क्षेत्राणां सामाजिक-आर्थिक विकासं, पलायनसमस्याया निराकरणं, स्थानीय युवानां रोजगारसंपादनं, पर्यटन इन्फ्रास्ट्रक्चर-सुदृढीकरणं च साधयिष्यति। प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रीयगृह मन्त्री अमितशाह लनिर्मितं वाइब्रेंट विलेज योजना प्रमोदनाय अपि एषा मैराथन अत्यन्तं उपयोगी स्यात्।
मुख्यमन्त्री उक्तवन्तः यत् एतत् मैराथन केवलं क्रीडाप्रतियोगिता न भवति, किन्तु सीमावर्ती जनानां सम्मानं, स्थानीय प्रतिमानं, होम-स्टे च पर्यटनक्षेत्रे स्थायी रोजगारसंपादनं च साधयितुं शक्तिमान् माध्यमः अस्ति। आदि कैलाश परिक्रमा रन-मैराथने प्रदेशस्य बालकाः, युवकाः, च सर्वे आयुर्वर्गाः प्रतिभागिनः आसन्। मैराथनस्य समापनं उत्तराखण्डपर्यटनविकासपरिषदः कार्यालये संपन्नम् अभवत्।
अस्मिन् अवसरे पर्यटनविभागस्य सचिवः धीरज गर्ब्याल उक्तवन्तः यत् 10 कि.मी. दूरीयुक्ते अस्मिन् दौडप्रतियोगितायाः शीर्ष 3 विजेतृभ्यः 2 नवम्बर 2025 तमे दिनाङ्के गुंजी, पिथौरागढ़मध्ये आयोज्यायां आदि कैलाश मैराथन मध्ये प्रतिभागस्य अवसरः प्राप्यते। अस्मिन आयोजनस्य पञ्च वर्गाः सन्ति – 60 कि.मी. (अल्ट्रा रन), 42 कि.मी. (पूर्ण मैराथन), 21 कि.मी. (हाफ मैराथन), 10 कि.मी. रन, 5 कि.मी. रन – यत्र देशस्य सर्वे एथलीटः प्रतिभागं करिष्यन्ति। सचिवः गर्ब्याल उक्तवन्तः यत् अस्य मैराथनस्य सफल आयोजनानन्तरं जून 2026 तमे दिनाङ्के माणा-नीति क्षेत्रे आगामी मैराथन आयोज्यते। व्यास-नीति घाट्यां आयोज्यायां मैराथने विजेतृभ्यः आहत्य 50 लक्षं रुपये पुरस्कारराशिः निर्धारिता।
अस्मिन् अवसरे कैबिनेट मन्त्री गणेश जोशी, आईजी आईटीबीपी संजय गुंज्याल, अपर सचिवः पर्यटन अभिषेक रूहेला, पूजा गर्ब्यालः च प्रतिभागिनः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता