Enter your Email Address to subscribe to our newsletters
भाेपालम्, 21 सितंबरमासः (हि.स.)। अद्य (रविवासरे) ‘अन्तर्राष्ट्रीयशान्तिदिवसः’ अस्ति। प्रतिवर्षं सप्टेम्बर् 21 तमे दिनाङ्के समग्रे विश्वे ‘अन्तर्राष्ट्रीयशान्तिदिवसः’ आचर्यते। एषः विशेषः अवसरः अस्ति, यदा वयं देशे विश्वे च शान्तिं सद्भावनां च स्थापयितुं प्रयत्नं कर्तुं शक्नुमः। अस्य विशेषस्य अवसरस्य निमित्तम् मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः प्रदेशवासिनः अभिनन्दनानि प्रदत्तवन्तः।
मुख्यमन्त्रिणा डॉ. यादवेन सामाजिकमाध्यमे एक्सपटले स्वे शुभकामना–सन्देशे उक्तम्—
“यूयं सर्वेऽपि ‘अन्ताराष्ट्रियशान्तिदिवस’ हार्दिकं अभिनन्दनं प्राप्नुत। अस्माकं सर्वेषां गौरवस्य विषयः अस्ति यत् युगयुगान्तरात् भारतस्य मूलस्वभावः एव शान्तिः आसीत्। आगच्छाम, ‘वसुधैव कुटुम्बकम्’ इत्यस्य भावनया अग्रे प्रवर्तमाना ‘Act Now for a Peaceful World’ इति विषयलक्ष्याणि साधयितुं संकल्पिताः भवाम।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता