Enter your Email Address to subscribe to our newsletters
- राज्यपाल पटेलो नवरात्रि पर्वणःवर्धापनानि अददात्
भोपालम्, 21 सितम्बरमासः (हि.स.) ।मध्यप्रदेशराज्यपालः मङ्गुभाई पटेल् नामकः प्रदेशवासिनः नवरात्रिपर्वणि अभिनन्दनानि शुभाशंसां च दत्तवन्तः। ते कामनां कृतवन्तः यत् सर्वेषां जीवनं सुख–समृद्धि–शान्ति–उत्तमस्वास्थ्यैः परिपूर्णं भवेत्। मातृदुर्गां प्रति प्रार्थनाम् अकुर्वन् यत् परस्परसौहार्दं, ऐक्यम्, भ्रातृत्वभावनां च अधिकं दृढं कुर्यात्।
राज्यपालः मङ्गुभाई पटेलः रविवासरे स्वसन्देशे अवदत् यत् नवरात्रिपर्वणामिदं पावनं अवसरं शक्तेः, भक्तेः, श्रद्धायाः च आराधनास्वरूपं प्रतीकमस्ति। एषः पर्वः आत्मनः अन्तःशक्तीं सामर्थ्यं च ज्ञात्वा जीवनं नवदिशां प्रति प्रेरयति। एषः अन्तर्मनः शुद्धये आत्मानुशासनस्य च सुदृढीकरणाय अवसरं ददाति। मातृदुर्गायाः नव दिव्यस्वरूपाणां उपासनया जीवनं नवीना ऊर्जया, धैर्येण, उत्साहेन, सकारात्मकभावेन च पूर्यते।राज्यपालः नागरिकान् प्रति आह्वानं कृतवान् यत् ते उत्सवं पारम्परिकेन उल्लासेन सद्भावस्य च वातावरणे आचरन्तु, समृद्धं सशक्तं च प्रदेशं निर्मातुं योगदानं च ददातु।
हिन्दुस्थान समाचार