Enter your Email Address to subscribe to our newsletters
नवदेहली, 21 सितंबरमासः (हि.स.)। पितृ-अमावास्या अद्य रविवासरे विद्यते। अस्याः सह पितृपक्षस्य अद्य अन्त्यदिवसः अस्ति। अश्विनमासस्य अमावास्यायां पितृपक्षस्य अन्त्यदिवसः भवति। अस्मिन् दिने अन्त्यश्राद्धं तर्पणं च कृत्वा पितरः प्रस्थिताः भवन्ति।
सनातनधर्मे पितृपक्षस्य विशेषं महत्त्वं विद्यते। एतेषु पञ्चदशसु दिनेभ्यः पितॄणाम् आत्मशान्त्यर्थं श्राद्धं तर्पणं पिण्डदानं च क्रियते। आस्था अस्ति यत् पितृपक्षे अस्माकं पूर्वजाः पृथिव्यां आगत्य दुःखानि अपाकुर्युः पुनः प्रतिनिवर्तन्ते च।
पितृपक्षस्य आरम्भः भाद्रपदपूर्णिमायाम् भवति तथा अश्विनअमावास्यायां तस्य समापनं भवति। अस्मिन् वर्षे सप्तमे सितम्बरदिने आरब्धः पितृपक्षः अद्य एकविंशे सितम्बरदिने समाप्तः अभवत्। अस्मिन् दिने महालयाऽमावास्या अस्ति या पितृपक्षस्य अन्त्यदिनः। अमावास्याश्राद्धं सर्वपितृमोक्षाऽमावास्या इति अपि उच्यते। अस्मिन् दिने श्राद्धं कृत्वा पूर्वजाः मोक्षं प्राप्नुवन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता