Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 21 सितंबरमासः (हि.स)।देशे वस्तुसेवाकरस्य (जीएसटी) नूतनदराः नवरात्र्याः प्रथमदिने सोमवासरे अर्थात् २२ सितम्बरतिथेः आरभ्य प्रवर्तिष्यन्ते। ग्राहकेभ्यः जीएसटीसुधाराणां लाभं दातुं कम्पन्यः निरन्तरं स्वस्वपदार्थानां मूल्यानि न्यूनानि कुर्वन्ति। अतः अद्य यावत् केन-केन कम्पन्या जीएसटीसुधारस्य लाभः ग्राहकेभ्यः प्रदातुं घोषितः इति ज्ञातव्यम्।
रसोयिसामग्रीभ्यः औषधयः वाहनानि च स्युः स्वल्पमूल्या:
जीएसटीस्य नूतनमितयः प्रवृत्ताः सन्ति चेत्, रसोये उपयुज्यमानसामग्रीभ्यः आरभ्य इलेक्ट्रॉनिक्स्, औषधयः, उपकरणानि, वाहनानि च पर्यन्तं प्रायः ३७५ वस्तवः २२ सितम्बरतिथेः स्वल्पमूल्याः भविष्यन्ति। नवरात्र्याः प्रथमदिने आरभ्यमाना जीएसटीदराः मुख्यतया पञ्चशतांशे अष्टादशशतांशे च द्वे श्रेणी भविष्यतः। तथापि विलासवस्तुषु पृथक् चत्वारिंशत्शतांशकरः भविष्यति। तम्बाकुयुक्तवस्तवः सम्बन्धिनश्च उत्पादाः २८शतांशात् अधिकोपकरश्रेण्यां स्थास्यन्ति। सरकारेण निर्देशः दत्तः यत् नूतनदराः प्रवृत्ताः सन्ति चेत्, व्यापारिणः उद्योगिनश्च सम्पूर्णं लाभं ग्राहकेभ्यः योजयन्तु।
टीवीमूल्ये २५००-८५००० रूप्यकपर्यन्तं न्यूनता:
जीएसटीदरकर्षणात् परं टेलिविजननिर्मातृभिः २५०० रूप्यकात् आरभ्य ८५००० रूप्यकपर्यन्तं मूल्यानि ह्रासिता भविष्यन्ति। उपभोक्तारः अस्य लाभं प्राप्स्यन्ति, निर्मातृभ्यश्च उत्सवकाले उत्तमविक्रयस्य अपेक्षा अस्ति। टेलिविजन, वातानुकूलकयन्त्राणि, वाशिंग्-मशीनादयः च उत्पादाः न्यूनमूल्याः जाता:। ३२ इञ्चात् अधिकपर्दायुक्तेषु टीवीसेटेषु जीएसटीकरः २८शतांशात् अष्टादशशतांशपर्यन्तं न्यूनः भविष्यति।
अमूलकम्पन्या ७०० उत्पादानां मूल्यं न्यूनं कृतम्:
अमूलनामिका कम्पनी ७०० अधिकेषु उत्पादेषु मूल्यानि ह्रासिता। घृतं, नवनीतम्, बेकरीउत्पादाः, अन्ये च तत्र अन्तर्भवन्ति। ६१० रूप्यककिलोयुक्तं घृतं ४० रूप्यकैः स्वल्पं भविष्यति। १०० ग्राम् नवनीतम् ६२ रूप्यकाणां स्थाने ५८ रूप्यकाणि, २०० ग्राम् पनीरं ९९ रूप्यकस्थाने ९५ रूप्यकेषु लभ्यते। टेट्रापैकेजदुग्धं द्वित्रिभिः रूप्यकैः न्यूनं भविष्यति। इतः पूर्वं मातृदुग्धसंस्था अपि मूल्यानाम् अवरोधं घोषिता।
स्वल्पमूल्या काराः द्विचक्रवाहनानि च:
मारुतिसुजुकी, टाटामोटर्स्, ह्युन्डाइमोटर् इण्डिया इत्यादयः प्रमुखवाहनाकम्पन्यः सोमवासरात् काराणां मूल्यानि न्यूनानि करिष्यन्ति। विलासिताकारनिर्मातृ मर्सिडीज्बेन्ज्, बीएमडब्ल्यू च, द्विचक्रवाहनकम्पन्यश्च २२ सितम्बरतिथेः जीएसटीदरैः सह मूल्यानि न्यूनानि करिष्यन्ति। देशस्य प्रमुखा मारुतिसुजुकीकम्पनी स्वकाराणां मूल्यं १.२९ लक्षरूप्यकपर्यन्तं न्यूनं कृतवती। स्वलपकारेषु अपि ८.५शतांशात् अधिकः ह्रासः निर्णयितः।
रेलनीरस्य मूल्यं न्यूनं कृतम्:
भारतीयरेलयानं रेलनीरं स्वल्पमूल्यं कृतवती। एकलिटरबोतलस्य मूल्यं १५ रूप्यकात् १४ रूप्यकं भवेत्। अर्धलिटरबोतलः १० रूप्यकाणां स्थाने ९ रूप्यके लभ्यते। रेलस्थानकेषु वा यानेषु वा आईआरसीटीसी इत्यादीनां जलबोतलानामपि मूल्यं १४ तथा ९ रूप्यकेषु भवति।
उपभोक्तृमन्त्रालयेन विशेषश्रेणी निर्मिता:
संशोधितजीएसटीदरसम्बद्धाः शिकायताः पञ्जीकर्तुं तासां निवारणाय च राष्ट्रीयोपभोक्ताहेल्पलाइनस्य (एनसीएच) इन्ग्राम्पोर्टले विशेषा श्रेणी निर्मिता। तस्मिन् ऑटोमोबाइल्, बैंकिङ्, ई-कॉमर्स्, एफएमसीजी, अन्ये च
उपश्रेणयः सन्ति।
---------------
हिन्दुस्थान समाचार