प्रधानमन्त्री नरेंद्रः मोदी जीएस्.टी. परिष्कारः “बचतोत्सवः” इति अभ्याख्यातवान्। अस्य परिणामरूपेण भारतीयानां सार्धद्विलक्षकोटि-रूप्यकाणि रक्षितानि भविष्यन्ति
नवदेहली, 21 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी जी वस्तुसेवाकरस्य (जी.एस्.टी.) नूतनमूल्यपरिवर्तनानि “बचतोत्सवः” इति निर्दिश्य अवदत्। ते उक्तवन्तः यत् “नागरिकदेवो भव” इति भावनायाः अधारेण प्रवर्तिताः एते करपरिष्काराः देशस्य जनानाम् अधिकं ढ
राष्ट्र के नाम संबोधन देते प्रधानमंत्री


नवदेहली, 21 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी जी वस्तुसेवाकरस्य (जी.एस्.टी.) नूतनमूल्यपरिवर्तनानि “बचतोत्सवः” इति निर्दिश्य अवदत्। ते उक्तवन्तः यत् “नागरिकदेवो भव” इति भावनायाः अधारेण प्रवर्तिताः एते करपरिष्काराः देशस्य जनानाम् अधिकं ढाई-लक्ष-कोटि-रूप्यकाणि रक्षिष्यन्ति, स्वदेशी-निर्माणक्षेत्रं च आत्मनिर्भरभारतस्य दिशि वेगेन प्रचलयिष्यन्ति।

प्रधानमन्त्री नवरात्र्याः पूर्वसन्ध्यायां राष्ट्रे संबोधनं कृत्वा उक्तवान् यत् जी.एस्.टी. बचतोत्सवः देशस्य सर्वेषां परिवारजनानां सुखवृद्धिकरः भविष्यति। अनेन सुधारप्रक्रियया प्रायः सर्वाणि दैनिकोपयोगवस्तूनि अल्पमूल्यानि भविष्यन्ति। भोजनपदार्थाः, औषधयः, स्नानोपकरणानि, दन्तमञ्जनम्, स्वास्थ्य-जीवनबीमा इत्यादयः सेवाः ५% करस्य अन्तर्गताः भविष्यन्ति अथवा करमुक्ताः।

मोदी जी स्वदेशीवस्तूनाम् उपयोगं पुनः प्रोत्साहितवन्तः। ते उक्तवन्तः यत् “विकसितभारतस्य निमित्तम् आत्मनिर्भरभारतमेव अनिवार्यम्।” स्वतंत्रतायाः प्राप्तौ यथा स्वदेशी-मन्त्रेण देशः शक्तिं प्राप्तवान् तथैव समृद्ध्याः प्राप्तौ अपि स्वदेशी-मन्त्रः एव देशस्य आधारः भविष्यति।

प्रधानमन्त्री एवमेव लघु-मध्यम-कुटीर-उद्योगानाम् (एम्.एस्.एम्.ई.) महत्वं प्रकाश्य उक्तवन्तः यत् अतीते भारतस्य स्वर्णयुगे एते उद्योगाः एव भारतस्य कीर्तिं निर्मितवन्तः। अद्यापि तेषां उद्योगानां माध्यमेन वैश्विकस्तरे गुणवत्तायुक्तद्रव्याणां पूर्तिः करणीयाः।

ते स्मारयन्ति स्म यत् जी.एस्.टी. आगमनात् पूर्वं देशे बहुविधाः करजालाः आसन्—ऑक्ट्रोय्, प्रवेशकरः, विक्रयकरः, उत्पादनकरः, वैट्, सेवा-करः इत्यादयः। तेषां कारणात् एकस्मात् स्थानात् अन्यत् स्थानं सामानं प्रेषयितुं कष्टं महद् आसीत्। २०१४ तः आरभ्य सर्वैः हितधारिभिः सह मन्त्रणा कृत्वा सर्वकारः जी.एस्.टी. प्रवर्तितवती च।

प्रधानमन्त्री उक्तवान् यत् “परिष्काराः सततप्रक्रियाः भवन्ति। समयपरिवर्तनात् देशस्य आवश्यकताः अपि वर्धन्ते। अतः इदानीं नूतनाः जी.एस्.टी. परिष्काराः आवश्यकाः सन्ति।”

नवपरिवर्तनात् केवलं ५% तथा १८% एव करश्रेणी भविष्यतः। अनेन प्रायः सर्वाणि दैनिकवस्तूनि सुलभमूल्यानि भविष्यन्ति।

मोदी जी उक्तवन्तः यत् गत११ वर्षेषु २५ कोटि जनाः दरिद्रतायाः बहिः आगताः, ते च नव-मध्यमवर्गरूपेण देशस्य प्रगत्याः भागिनः अभवन्। इदानीं जी.एस्.टी.-परिष्कारैः एते वर्गाः द्विगुणं लाभं प्राप्स्यन्ति। गृहनिर्माणं, गृहोपकरणक्रयः, वाहनक्रयः, पर्यटनं च सर्वं सुलभं भविष्यति।

प्रधानमन्त्री अन्ते आवाहनं कृतवान्— “मम गृहं स्वदेश्याः प्रतीकम्, मम दुकानं स्वदेश्यैः भूषितम्। गर्वेण वदामि—अहं स्वदेशी क्रयामि, अहं स्वदेशी विक्रयामि।”

ते नवरात्रेः शुभे अवसरस्य च जी.एस्.टी. बचतोत्सवस्य च शुभकामनाः समर्पितवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता