Enter your Email Address to subscribe to our newsletters
नवदेहली, 21 सितम्बरमासः (हि स) अद्य सायं 5 वादने प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय सम्बोधयिष्यते। एषः उत्सवः नवरात्र्याः पूर्वदिने आचर्यते। अपि च, श्वः आरभ्य सम्पूर्णे देशे नूतनाः जी.एस.टी. दराः प्रवर्तिताः भविष्यन्ति।
सर्वकार इत्येषः सद्यः एव जी.एस. टी. इत्यस्य मूल्यानि न्यूनीकृतवान्, अधिकांशाः वस्तूनि अधुना 5 प्रतिशतस्य परिधौ आनयन्। सर्वकारेण 12 प्रतिशतं 28 प्रतिशतं च दरः निरस्तः। केचन उन्नत-ऐषारामि-वस्तूनि 40 प्रतिशतस्य जी.एस.टी.-श्रेण्याः अन्तर्गताः सन्ति। प्रधानमन्त्री 22 सितम्बर दिनाङ्के नवरात्र्याः प्रथमदिवसात् नूतनानां जी.एस.टी. इत्यस्य मूल्यानां कार्यान्वयनस्य घोषणाम् अकरोत्। सः अवदत् यत् नूतनाः जी.एस.टी. मूल्यानि अस्माकं देशस्य विकासस्य द्विगुणरूपेण कार्यं करिष्यन्ति इति। एतेन न केवलं प्रत्येकं परिवारस्य सञ्चयः वर्धते, अपितु अस्माकं अर्थव्यवस्थायाः अपि नूतनशक्तिः प्राप्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता