Enter your Email Address to subscribe to our newsletters
नव देहली, 21 सितम्बरमासः (हि स) प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः पूर्वोत्तरराज्ययोः अरुणाचलप्रदेशस्य, त्रिपुरायाः च भ्रमणं करिष्यति। अरुणाचलप्रदेशस्य इटानगरे 5100 कोटिरूप्यकाणां विकासकार्याणां राष्ट्राय समर्पणं करिष्यति। तस्मिन् एव समये, सः त्रिपुराराज्ये माता-त्रिपुरा-सुन्दरी-मन्दिर-परिसरस्य विकासकार्यस्य शिलान्यासं करिष्यति। सः ईटानगरे सार्वजनिककार्यक्रमम् अपि सम्बोधयिष्यति, तथैव मन्दिरे प्रार्थनां दर्शनं च करिष्यति। सः तवाङ्ग-नगरे अत्याधुनिक-सम्मेलन-केन्द्रस्य शिलान्यासम् अपि करिष्यति।
प्रधानमन्त्री कार्यालयस्य अनुसारं, प्रधानमन्त्री ईटानगरे 3,700 कोटिरूप्यकाणां प्रमुखयोः जलविद्युत्-परियोजनानां शिलान्यासं करिष्यति। अरुणाचलप्रदेशस्य सियोम् उप-तटप्रदेशे हीयो-जलविद्युत्-परियोजनायाः (240 मेगावाट), टाटो-1 जलविद्युत्-परियोजनायाः (186 मेगावाट) च विकासः भविष्यति।
अरुणाचलप्रदेशस्य तवाङ्ग-नगरे धार्मिक-आस्थायाः केन्द्रस्य अत्याधुनिक-सम्मेलन-केन्द्रस्य शिलान्यासं प्रधानमन्त्री करिष्यति। तवाङ्ग इत्यस्य सीमान्तमण्डले 9,820 पादात् अधिके ऊर्ध्वतायां स्थितम् एतत् केन्द्रं राष्ट्रिय-अन्ताराष्ट्रिय-सम्मेलनानां, सांस्कृतिक-उत्सवानां, प्रदर्शनानां च आयोजनार्थं महत्त्वपूर्ण-सुविधारूपेण कार्यं करिष्यति। 1500 तः अधिकानां प्रतिनिधिनां आतिथेयत्वं स्वीकर्तुं क्षमतायुक्तं केन्द्रम् वैश्विकमानकं पूरयिष्यति तथा च अस्य प्रदेशस्य पर्यटनस्य सांस्कृतिकस्य च संभावनां वर्धयिष्यति।
प्रधानमन्त्री 1290 कोटिरूप्यकाणां अनेकानां प्रमुखानां मूलसंरचनाप्रकल्पानां उद्घाटनम् अपि करिष्यति। श्वः आरभ्यमानानां नूतनानां जी.एस.टी. इत्यस्य मूल्यानां प्रभावस्य विषये इटानगरस्य स्थानीय-करदातृभिः, व्यापारिभिः, उद्योगप्रतिनिधिभिः च सह प्रधानमन्त्री संवादं करिष्यति।
त्रिपुराराज्ये प्रधानमन्त्री तीर्थयात्रा-पुनरुज्जीवन-आध्यात्मिक-परम्परा-वर्धन-अभियानस्य (प्रसाद) योजनायाः अन्तर्गतं माताबरी-नगरे 'माता-त्रिपुरा-सुन्दरी-मन्दिर-परिसरस्य' विकासकार्यस्य उद्घाटनं करिष्यति। इदं मन्दिरं त्रिपुराराज्यस्य गोमतीमण्डले उदयपुरनगरे स्थितेषु 51 प्राचीनेषु शक्तिपीठेषु अन्यतमम् अस्ति।
प्रधानमन्त्री सद्यः एव पूर्वोत्तरराज्यत्रयं मणिपुरं, मिजोराम्, असाम इत्येतानि पर्यटयत्।
हिन्दुस्थान समाचार / अंशु गुप्ता