Enter your Email Address to subscribe to our newsletters
पश्चिम बंगालम्, 21 सितम्बरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य (आरएसएस इत्यस्य) शताब्दीवर्षविशेषकार्यक्रमानां सूचीअनुसार अद्य 21 सितम्बर दिनाङ्के सर्वत्र पश्चिमबङ्गाले एकत्र पथसंचलनकार्यक्रमाः आरब्धाः। रविवासरे प्रभातसमये एव राज्यस्य नानानगरेषु खण्डेषु च नियोजितसमयअनुसारं पथसंचलनं स्वयंसेवकानां च एकत्रीकरणं प्रवृत्तम्। केषुचित् स्थलेषु प्रभाते, अन्यत्र सायं काले च पथसंचलनानि कृता्नि। संघः अस्मिन् वर्षे स्वस्य शताब्दीवर्षं उत्सवेन स्मरति। अस्य क्रमस्य अन्तर्गतं वर्षपर्यन्तं प्रवर्तिष्यन्ते य एव विविधाः आयोजनाः, तेषु प्रथमतः प्रमुखः कार्यक्रमः पथसंचलनम् एव नियुक्तः। अस्य माध्यमेन अनुशासनस्य, संगठनस्य, राष्ट्रभावनायाः च सन्देशः समाजे सम्प्रेष्यते।
विशेषतया संघेन उक्तं यत् समाजे सकारात्मकपरिवर्तनाय “पञ्चपरिवर्तन” आवश्यकः। तत्र स्वदेशी, कुटुम्बप्रबोधनम्, सामाजिकसमरसता, पर्यावरणसंरक्षणं, नागरिककर्तव्यपालनं च अन्तर्भवन्ति। एतेषां पञ्चविषयाणाम् आधारेण एव भाविनि कार्यक्रमयोजनाः अपि निरूपिताः।
अद्य पश्चिमबङ्गस्य सर्वेषु नगरेषु खण्डेषु च स्वयंसेवकानाम् एकत्रीकरणम् आरब्धम्। स्वयंसेवकाः पूर्णगणवेशधारिणः कतारबद्धाः घोषवाद्यधुनिभिः सह नगरभ्रमणाय निर्गताः। स्थाने स्थाने नागरिकैः पुष्पवृष्ट्या तेषां स्वागतं क्रियते स्म। घोषैः, गीतैः, देशभक्तिनारैः च सम्पूर्णं वातावरणं गुञ्जति स्म।
प्रान्तीय-जिलास्तरीय-वरिष्ठपदाधिकारी अपि विविधानि स्थलानि गत्वा कार्यक्रमस्य मार्गदर्शनं कृतवन्तः। वक्तारः उक्तवन्तः यत् शताब्दीवर्षः केवलं उत्सवस्य अवसरः नास्ति, किन्तु एषः कालः अस्ति यदा वयं व्यक्तिस्तरे, कुटुम्बस्तरे, समाजस्तरे, राष्ट्रस्तरे, विश्वस्तरे च सकारात्मकपरिवर्तनाय संकल्पं गृह्णीमहि।
-----
हिन्दुस्थान समाचार