Enter your Email Address to subscribe to our newsletters
रूसदेश स्य काल्मिकिया-प्रदेशे पिपरह्वा-अवशेषानां २४ सितम्बर-तिथेः आरभ्य १ अक्टोबर-तिथिपर्यन्तं प्रदर्शनं भविष्यति।
शान्ति-करुणयोः संदेशं वहन्ति पिपरह्वा-अवशेषाः, तेषां प्रतिनिवर्तनं भारतस्य प्रधानमन्त्रिणा राष्ट्रस्य गौरव-क्षणः इति निर्दिष्टम्।
लखनऊनगरम्/नवदेहली, 21 सितंबरमासः(हि.स.)। उत्तरप्रदेशः पुनः वैश्विक-बौद्ध-न्यासस्य केन्द्रे स्थितम्। शतसप्तविंशतिवर्षपूर्वं सिद्धार्थनगर-जनपदे पिपरह्वा-स्तूपे १८९८ तमे वर्षे यः पवित्रः पिपरह्वा-अवशेषः अन्वेष्टः, सः भारतं प्रति पुनरागतः। इदानीं तस्य अवशेषस्य प्रदर्शनं रूसदेशस्य काल्मिकिया-प्रदेशे आयोज्यमानायां प्रदर्शिन्यां भविष्यति। अस्मिनर्थे केन्द्रीय-संस्कृति-मन्त्रालयस्य नेतृत्वे प्रतिनिधिमण्डलं काल्मिकिया-प्रदेशं प्रेषयिष्यते, यस्य नेतृत्वं उत्तरप्रदेश-सरकारस्य उपमुख्यमन्त्री केशवप्रसाद-मौर्यः करिष्यन्ति।
शीघ्रं सार्वजनिकं प्रदर्शनम्
औपनिवेशिक-काले विदेशं नीताः पिपरह्वा-अवशेषाः मई २०२५ तमे मासे हाङ्काङ्ग-नगरस्थायां अन्तर्राष्ट्रीय-नीलामकायां स्थापिता आसन्। तत्र सूचना लब्ध्वा केन्द्रीय-संस्कृति-मन्त्रालयेन गॉदरेज-औद्योगिक-समूहस्य सहकारेण सा नीलामका निवारिता आसीत्। ततः ३० जुलाई २०२५ तमे दिने एते अवशेषाः भारतं प्रत्यानेताः। पिपरह्वा-अवशेषानां प्रतिनिवर्तनं केवलं भारतस्य न, अपि तु उत्तरप्रदेशस्य भूमेः तस्य गौरवपूर्णस्य इतिहासस्य पुनः प्रतिष्ठापनं यत्, येन भगवान्बुद्धस्य शिक्षाभिः सम्पूर्णं विश्वं आलोकितम्। एतेषाम् अवशेषाणां सार्वजनिकं प्रदर्शनं शीघ्रं आयोज्यते। एषः उत्सवः उत्तरप्रदेशं वैश्विक-बौद्ध-न्यासस्य केन्द्रं करणीयः, राज्यस्य सांस्कृतिक-पर्यटन-सम्भावनाभ्यः नूतनानि शिखराणि दास्यति।
उत्तरप्रदेशः—बुद्धस्य न्यासः
सिद्धार्थनगरस्य पिपरह्वा-स्तूपः, यत्र भगवान्बुद्धस्य अवशेषाः प्राप्ताः। वाराणसी-नगरस्य सारनाथः, यत्र तेन प्रथमोपदेशः प्रदत्तः। कुशीनगरं, यत्र महापरिनिर्वाणं लब्धम्। एषः पवित्रः त्रिकोणः उत्तरप्रदेशं विश्वस्य कोटिशः बौद्ध-श्रद्धालूनां प्रमुखं विशिष्टं च तीर्थस्थलं करोति। उत्तरप्रदेशस्य भूमिः भगवान्बुद्धस्य तपोभूमिः इत्येव ख्यातः। पिपरह्वा-अवशेषानां गृह-प्रत्यावर्तनं केवलं भारतस्य सांस्कृतिक-शक्तेः प्रमाणं न, अपि तु उत्तरप्रदेशस्य ऐतिहासिक-महत्त्वस्य पुनः प्रतिष्ठापनम्। एषः प्रदेशः अद्यापि जगतः शान्तेः, करुणायाः, सह-अस्तित्वस्य च संदेशं ददाति। प्रधानमन्त्रिणा नरेन्द्र-मोदिनापि १२७ वर्षानन्तरं भगवान्बुद्धस्य पवित्र-पिपरह्वा-अवशेषानां भारत-प्रत्यावर्तनं स्वागतं कृतम्, तं च राष्ट्रस्य सांस्कृतिक-धरोहरायाः गौरव-क्षणः इति निर्दिष्टम्।
अवशेषानां महत्त्वम्
एतेषु अवशेषेषु भगवान्बुद्धस्य अस्थयः, क्रिस्टल-निर्मिता पेटिका, सुवर्णाभरणानि, रत्नानि, बलुकापाषाण-निर्मितः संदूकः च अन्तर्भवन्ति। ब्राह्मी-लिपेः अभिलेखाः एतान् प्रत्यक्षं शाक्यवंशेन सम्बध्नन्ति। अस्मिन् सन्दर्भे गॉदरेज-औद्योगिक-समूहस्य कार्यकारी-उपाध्यक्षः पिरोज्शा-गॉदरेज इत्यनेन उक्तम्—पिपरह्वा-अवशेषानां प्रतिनिवर्तनं केवलं भारतस्य न, किन्तु सम्पूर्णमानवजातेरपि शान्तेः करुणायाश्च संदेशः।
प्रदर्शने विशेषाः
२५ सितम्बरात् २८ सितम्बरपर्यन्तं काल्मिकिया-प्रदेशस्य एलिस्ता-नगरे स्थिते राष्ट्रीय-संग्रहालये भगवान्बुद्धस्य जीवनस्य मुख्य-घटनाः प्रदर्शयिष्यन्ते। मूल-कलात्मक-शैलिषु निर्मितानां कृतिनां प्रतिकृतयः अपि तत्र प्रदर्शिताः भविष्यन्ति। अस्मिन्नेव प्रदर्शने पिपरह्वा-अवशेषाः अपि स्थाप्यन्ते। अस्मिन्नेव अवसरः लघु-वृत्तचित्रं अपि प्रदर्शितं भविष्यति। काल्मिकिया-प्रदेशे बौद्ध-जनसंख्या बहुल्येन वर्तते, अत्र बौद्धधर्मः केवलं धर्म एव न, अपि तु संस्कृत्याः परम्परायाश्च अभिन्नः अंशः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता