केंद्रीय मंत्री शिवराज सिंह चौहानोऽद्य रायसेन जिलायाः प्रवासे
- एकस्मिन् देशे एकनिर्वाचने जनप्रतिनिधयस्सम्मेलने भविष्यन्ति सम्मिलिताः भोपालम्, 21 सितम्बरमासः (हि.स.)।केंद्रीयकृषिमन्त्री तथा क्षेत्रीयसांसदः शिवराजसिंहः चौहानः आज रविवासरे रायसेनजिलस्य प्रवासे भविष्यन्ति। अस्मिन् समये ते प्रधानमन्त्रिणः नरेन्द
शिवराज सिंह चौहान


- एकस्मिन् देशे एकनिर्वाचने जनप्रतिनिधयस्सम्मेलने भविष्यन्ति सम्मिलिताः

भोपालम्, 21 सितम्बरमासः (हि.स.)।केंद्रीयकृषिमन्त्री तथा क्षेत्रीयसांसदः शिवराजसिंहः चौहानः आज रविवासरे रायसेनजिलस्य प्रवासे भविष्यन्ति। अस्मिन् समये ते प्रधानमन्त्रिणः नरेन्द्रमोदिणः पञ्चसप्ततितमजन्मदिने सञ्चालिते सेवा–पक्षवार–अभियाने अन्तर्गतानि विविधकार्यक्रमाणि सहभागी भविष्यन्ति।

भारतीयजनतादल–जिलाध्यक्षः राकेशशर्मा इत्यनेन उक्तम् यत् केंद्रीयमन्त्री चौहानः प्रातः एकादशवादने रायसेनं प्राप्स्यन्ति, अत्र च प्रथमं भोपालमार्गे खरवैग्रामस्य समीपे चिड़ियाटोल्–स्थले वृक्षारोपणं करिष्यन्ति। ततः प्रातः एकादशार्धवादने वार्ड् १३ स्थिते शिवालयप्राङ्गणे स्वच्छताकार्यक्रमे सहभागी भविष्यन्ति।

केंद्रीयमन्त्री चौहानः द्वादशार्धवादने वनप्राङ्गणे एकदेशः एकनिर्वाचनम् इत्यस्मिन् विषय उपरि जनप्रतिनिधिसम्मेलने भागं करिष्यन्ति। अस्मिन् समये जिलापरिषद्, नगरपालिकायाः, जनपदस्य च पदाधिकरिणः तस्मै एकदेशः एकनिर्वाचनम् इत्यस्य समर्थनप्रस्तावम् अर्पयिष्यन्ति।

केंद्रीयकृषिमन्त्री चौहानः अपराह्णे एकवादने भारतीयजनतादल–जिलाकार्यालये सांसदकार्यालयस्य उद्घाटनं करिष्यन्ति। ततः अपराह्णे त्रिवादने सांची–नगरस्य नमोवाटिकायाः शुभारम्भं वृक्षारोपणं च करिष्यन्ति।

अन्तिमकार्यक्रमरूपेण त्रिवादनार्धे सांची–नगरे स्थिता सिविल्–अस्पताले रक्तदानम् स्वास्थ्यशिविरं च सहभागी भविष्यन्ति।

हिन्दुस्थान समाचार