Enter your Email Address to subscribe to our newsletters
भोपालम्, 21 सितम्बरमासः (हि.स.)।मध्यप्रदेशराज्यसेवायाः आयोगेन अद्य रविवासरे तांत्रिकपरीक्षा–२०२४ आयोजनं क्रियते। एषा परीक्षा अपराह्णे द्वादशवादनात् त्रीणि वादनपर्यन्तं इन्दौरनगरस्य षट्सु केन्द्रेषु भविष्यति। अस्मिन् परीक्षायां प्रदेशस्य २६३१ परीक्षार्थिनः सम्मिलिष्यन्ति।
इन्दौरसंभागायुक्तः डॉ॰ सुदाम खाडे इत्यनेन उक्तं यत् आयोगेन निर्दिष्टानुसारं परीक्षाकाले वस्त्रेषु, कफ्लिङ्क्–नाम्नि, सूर्यचष्मनि, जूतेषु–मोजेषु, हस्तबन्धेषु च विविधाणि इलेक्ट्रानिक्–यन्त्राणि उपयुज्यन्ते। अतः परीक्षायां यन्त्रप्रयोगनिवारणार्थं परीक्षागृहे जूतेषु मोजेषु सह प्रवेशः निषिद्धः। परीक्षार्थिनः चप्पलम् अथवा सैण्डल् इत्येतत् धारयित्वा आगन्तुं शक्नुवन्ति। मुखावरणेन सह प्रवेशोऽपि निषिद्धः।
परीक्षायां पेंसिल्, रबर (इरेजर्), व्हाइटनर्, तथा उपकरणानि यथा—केशबन्धनाय क्लचर्/बकल्, घटी (वॉच्), हस्ते धार्यमाणाः धातुज–चर्मबन्धनानि, कटिबन्धः (बेल्ट्), सूर्यचष्मानि, पर्स्/वालेट्, टोपी—एतानि सर्वाणि प्रवेशद्वारे परीक्षार्थिभ्यः वर्जितानि।
परीक्षाकेन्द्राणि (षट्):१. शासकीय नवीन विधि महाविद्यालयः (भँवरकुंआ)२. महारानीलक्ष्मीबाई स्नातकोत्तर कन्यामहाविद्यालयः (किलाभवनम्)३. शासकीय मालवा कन्या उच्चतरमाध्यमिकविद्यालयः (मोतीतबेला)४. श्रीगोविन्दरामसक्सेरिया प्रौद्योगिकी–विज्ञानसंस्थानम्५. होल्कर्–विज्ञान–महाविद्यालयः।एषु केन्द्रेषु मप्र राज्यसेवायाः आयोगेन परीक्षा आयोजिता भविष्यति।
हिन्दुस्थान समाचार