Enter your Email Address to subscribe to our newsletters
वॉशिंगटनम्, 21 सितंबरमासः (हि.स.)।एच-१बी वीसा विषये अमेरिकादेशे नूतननियमाः अद्य अमेरिकासमयतः २१ सितम्बरतिथेः प्रवर्त्यन्ते। नूतननियमानुसार अमेरिका नवआवेदकानाम् एकलाखडालर् (सन्निकटं ८८ लक्षभारतीयरूप्यक) शुल्कं गृह्णाति। राष्ट्रपति डोनाल्ड् ट्रम्पः शुक्रवासरे तेन सम्बन्धितं कार्यकारी आदेशं हस्ताक्षरितवान्।
ट्रम्पसरकारस्य एषः निर्णयः प्रवासीजनानाम् मध्ये संकोचं सृजितवान्, किन्तु व्हाइटहाउसः नूतननियमानां विषये स्पष्टीकरणं अपि प्रदत्तवान्। व्हाइटहाउसस्य प्रेससचिवः कैरोलाइन् लेविट् शनिवासरे स्पष्टतया उक्तवती, यत् हालमेव घोषितः एच-१बी वीसा शुल्कः वार्षिकः नास्ति, केवलं नवाभ्यर्थिभ्यः एव लागू भविष्यति। नवीनीकरणाय वा वर्तमानवीसाधारकानाम् प्रति एषः शुल्कः प्रवर्तितो न भवति।
यः एच-१बी वीसा पूर्वमेव धारयति च यः देशात् बहिः वर्तमानः अस्ति, तस्मात् पुनः प्रवेशाय शुल्कं न लप्स्यते। एच-१बी वीसा धारकाः देशात् बहिः गत्वा पुनः प्रवेशं कर्तुं शक्नुवन्ति। नूतननियमाः तेषां प्रति प्रभावं न करिष्यन्ति। एषा व्यवस्था आगामी एच-१बी लॉटरीचक्रात् प्रथमं लागू भविष्यति।
भारतीयदूतावासेन हेल्पलाइनसङ्ख्या प्रकाशिता – आपत्कालीनसहाय्यां चाहन्वन्तः भारतीयनागरिकाः मोबाइल् +१-२०२-५५०-९९३१ (व्हाट्सएप् अपि) इत्यस्यां सङ्ख्यायाम् सम्पर्कं कर्तुं शक्नुवन्ति। अस्या सङ्ख्याया उपयोगः केवलं तत्कालआपत्कालीनसहाय्याय एव, न कि सामान्यदूतावाससम्बद्धाः प्रश्नानां कृते।
एच-१बी वीसा शुल्कं एकलाखडालर् कर्तुं अमेरिकाः आदेशितवान्। पूर्वं एषः वीसा अर्जने सन्निकटं ५ लक्षभारतीयरूप्यक एव व्ययः आसीत्, यः ३ वर्षेषु मान्यः आसीत्। तदनन्तरं ३ वर्षेषु नवीनीकृतः अपि भवितुम् अर्हति। नूतननियमानुसार एषः शुल्कः ६ वर्षेषु ५.२८ करोड़भारतीयरूप्यकं भविष्यति।
अस्मात् निर्णयात् भारतस्य अनेके व्यवसायिनोऽमेरिकायां कार्यं कुर्वन्तः विस्मयं अनुभवन्ति। एच-१बी वीसा धारकानां मध्ये भारतीयाः संख्या अतिरेकम् अस्ति। अमेरिका प्रतिवर्षं प्रायः ८५,००० नव-एच-१बी वीसा प्रदत्ते, येषां बहुलांशः भारतीयपेशेवराणाम्। तस्मात् चीन्, दक्षिणकोरिया च अन्यदेशीयजनाः शेषं कुर्वन्ति। वर्षे २०२३ मध्ये एच-१बी वीसा प्राप्ताः १,९१,००० जना भारतीयाः आसन्, वर्षे २०२४ एषः संख्या २,०७,००० पर्यन्तं वृद्धा। एते कुशलाः भारतीयपेशेवराः मुख्यतया प्रौद्योगिकी, स्वास्थ्यसेवा, अनुसन्धानादिषु क्षेत्रेषु कार्यं कुर्वन्ति।
एच-१बी वीसा सम्बन्धे ट्रम्पस्य नूतनादेशानन्तरं असमंजसस्य स्थिति वर्धिता, यदा अमेरिकी-दिग्गजकम्पन्यः २० सितम्बरपर्यन्तं कर्मकरान् अमेरिका प्रत्यागमनाय निर्देशितवन्तः।
एच-१बी वीसा किम्?
एषः नॉन-इमिग्रेन्ट् वीसा अस्ति, यः लॉटरीमार्गे प्रदत्तः। एषः वीसा आईटी, वास्तुकला, स्वास्थ्यं च इत्यादिषु विशेषतकनीकीकुशलपेशेवराणां कृते प्रदत्तः।
---------------
हिन्दुस्थान समाचार