Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 21 सितंबरमासः (हि.स.)।असमराज्यस्य शिक्षामन्त्री डॉ. रणोज् पेगु इति रविवासरे सोनापुरे विभिन्नस्थानानि निरीक्षितवान्, यत्र गायकस्य जुबीनगर्गस्य अन्त्यसंस्कारस्य सम्भावना व्यक्ता जाता।
मन्त्रिणः एषः दौरो राज्यसरकारस्य गर्गकुटुम्बस्य च मध्ये प्रवर्तमानायां परामर्शप्रक्रियायाम् अभवत्। परिवारस्य इच्छानुसारं अन्त्यसंस्कारव्यवस्था सुनिश्चितुं एषः उपक्रमः कृतः।
निरीक्षणकाले नाजिराखाटप्रदेशे स्थितं नॉर्थ ईस्ट ट्राइबल् म्यूजियम्–परिसरः, सोनापुर–बरखाटप्रदेशे राष्ट्रीयराजमार्गस्य पार्श्वे स्थितं सरकारीभूमिभागः, हातीमुरायां राजमार्गस्य समीपे अन्यः भूमिखण्डश्च सम्भाव्यविकल्परूपेण स्वीकृताः।
तत्र उपस्थिताः अधिकारीणः प्रत्येकस्थानस्य पहुँचम्, उपलब्धं स्थलम्, विशालजनसमूहेन सह व्यवहारक्षमत्वं च मूल्याङ्कृतवन्तः।
मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अपि वीडियो–कॉल् माध्यमेन सचिवेन सह प्रस्तावितस्थानानां विषये चर्चां कृत्वा, सज्जतायाः निरीक्षणं च कृतवान्। सः अपि उक्तवान् यत् अन्त्यसंस्कारव्यवस्था परिवारस्य भावनानां जनमानसस्य च अपेक्षानां अनुरूपा एव भवेत्।
मन्त्री पेगुः स्पष्टीकृतवान् यत् यद्यपि बहवः विकल्पाः समुपस्थिता आसन्, तथापि अन्तिमनिर्णयः स्वर्गीयजुबीनस्य परिवारस्य एव भविष्यति।
-----------------
हिन्दुस्थान समाचार