Enter your Email Address to subscribe to our newsletters
नवदेहली, 22 सितंबरमासः (हि.स.)। वस्तु-सेवा-करः (जी.एस्.टी.) अद्यादारभ्य देशव्याप्यं प्रवर्तितः। सत्तारूढा भारतीयजनतादलः (भा.ज.पा.) नूतन-जी.एस्.टी. मूल्यान् ‘महाबचत-महोत्सव’ इति निर्दिश्य अवदत् यत् एतेषु परिष्कारेषु सर्ववर्गीयजनानां लाभः स्यात्।
रेलमन्त्री अश्विनि वैष्णवः सोमवासरे भाजपा-मुख्यालये पत्रकार-परिषदि अवदत् — “अद्यादारभ्य महान् बचत-महोत्सवः प्रारब्धः। प्रधानमन्त्रिणा नरेन्द्रेण मोदिना यः जी.एस्.टी.परिष्कारः करणीयः इति निर्णयः कृतः, सः अद्य प्रवृत्तः। अस्मात् जनानां मध्ये आनन्द-तरङ्गः उत्पन्नः। प्रतिदिनोपयोगीनि प्रायः सर्वाणि सामानि सस्तानि भविष्यन्ति।”
कांग्रेसं प्रति प्रतिवचनं दत्त्वा वैष्णवः अवदत् — “देशस्य सर्वतः अद्य एषा एव वार्ता आगच्छति यत् जी.एस्.टी. परिष्कारेण जनाः प्रसन्नाः। किन्तु विपक्षे स्थिताः अस्माकं सहचराः अस्मात् बचत् न प्रसन्नाः। तेषां काले केवलं चर्चाः एव अभवन्, कार्यं तु नासीत्। यु.पी.ए.-कालस्य समये सिमेण्ट्-नामक-वस्तु ३० प्रतिशत-कर-अन्तर्गतं आसीत्, अद्य तु एन्.डी.ए.-काले १८ प्रतिशतं एव। यु.पी.ए.-काले सैनिटरी-पैड् १३ प्रतिशतं करम् आसीत्, अधुना तु शून्यम्।
यु.पी.ए.-काले पादत्राणेषु १८ प्रतिशतः करः आसीत्, अधुना ५ प्रतिशतः एव जातः। यु.पी.ए.-काले शीतकोष्ठके ३० प्रतिशतः करः आसीत्, अधुना १८ प्रतिशतः एव। यु.पी.ए.-काले धौत-चूर्णे (डिटरजेन्ट्) ३० प्रतिशतः करः आसीत्, अधुना ५ प्रतिशतः एव। अद्य अस्माकं जी.डी.पी. ३३० लक्ष-कोटि-रूप्यकाणि, यस्मिन् २०२ लक्ष-कोटि-रूप्यकाणि उपभोगः। वित्तवर्षे २०२३–२४ मध्ये उपभोगः १८१ लक्ष-कोटि-रूप्यकाणि आसीत्। १८१ लक्ष-कोटि-रूप्यकात् २०२ लक्ष-कोटि-रूप्यकाणि जातम्, इत्यतः १२ प्रतिशतः वृद्धिः अभवत्। जी.एस्.टी. परिष्कारे उपभोगे एषा वृद्धिः जात्वा जी.डी.पी. मध्ये प्रायः २० लक्ष-कोटि-रूप्यकाणि इति वृद्धि भविष्यति।”
वैष्णवः अवदत् — “कृषकाणाम् अपि कृते जी.एस्.टी. परिष्कारः हितकरः भविष्यति। प्रधानमन्त्रिणा ‘सबका साथ, सबका विकास’ इति मन्त्रः गृहीतः। अस्य लाभः जनान् प्रति प्रापयितुं सरकारः संकल्पितः अस्ति।”
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता