Enter your Email Address to subscribe to our newsletters
दुबईनगरम्, 21 सितंबरमासः (हि.स.)। एशियाकपस्य सुपर-4 चरणे भारतमण्डलेन पुनरपि चिरप्रतिद्वन्द्वी पाकिस्तानं पराजितम्। दुबई अन्तर्राष्ट्रीय क्रिकेट् स्टेडियममध्ये सम्पन्ने अस्मिन् प्रतियोगिते भारतः 7 कन्दुकान् शेषयित्वा 6 विकेट्स् (षट्कद्वारैः) विजयम् अलभत।
पाकिस्तानस्य 172-रनलक्ष्यस्य अनुगमनं कृत्वा भारतमण्डलम् 18.5 ओवर् मध्ये चत्वारि विकेटानि हृत्वा लक्ष्यं प्राप्तवान्।
अभिषेक शर्मा 39 कन्दुकेषु 74 धावनाङ्काः (6 चौकाः, 5 षट्काः) प्रहृत्य प्लेयर ऑफ द मैच इति सम्मानं प्राप्तवान्।
शुभमन गिल 28 कन्दुकेषु 47 धावनाङ्काः (8 चौकाः) संयोजितवान्।
तिलक वर्मा 19 कन्दुकेषु नाबाद 30धावनाङ्काः (2 चौकाः, 2 षट्काः) निर्माय भारतस्य विजयम् सुनिश्चितवान्।
पाकिस्तानस्य पक्षे हारिस रऊफ द्वौ विकेटौ, अबरार अहमद तथा फहीम अशरफ एकं-एकं विकेटं प्राप्तवन्तौ।
पूर्वं पाकिस्तानं टॉस हृत्य 20 ओवर् मध्ये 5 विकेटानि त्यक्त्वा 171 रनाः संचितवान्।
साहिबजादा फरहान 45 कन्दुकेषु 58 धावनाङ्कान् प्राप्तवान्।
सैम अय्यूब 21 अङ्काः,
फहीम अशरफ 8 गेंदासु नाबाद 20 रनाः,
सलमान आगा नाबाद 17 रनाः योगदानं कृतवन्तौ।
भारतस्य शिवम् दूबे सर्वाधिकं सफलगोलन्दाजः जातः—4 ओवर् मध्ये 33 रनं दत्वा 2 विकेटौ प्राप्तवान्। कुलदीप यादव तथा हार्दिक पण्ड्या अपि एकं-एकं विकेटं लब्धवन्तौ।
एषा विजयः भारतस्य सुपर-4 यात्रायां द्रढपदम् आसीत्, येन फाइनल्-प्रवेशाय मार्गः प्रशस्तः जातः।
------------------
हिन्दुस्थान समाचार / अंशु गुप्ता