मुख्यमंत्री नीतीश कुमारः प्रदेशस्य देशस्य च वासिभ्योऽददात् नवरात्रस्य शुभकामनाः
पटना, 22 सितंबरमासः (हि.स.)। शारदीय नवरात्रम् अद्य आरब्धा। तत्सह सर्वे जनाः देवीपूजायाम् व्यवस्थिताः सन्ति। शारदीय नवरात्रे शुभारम्भे मुख्यमन्त्री श्री नीतीश कुमारः प्रदेशजनान् च देशवासिनः च हार्दिकं अभिनन्दनं शुभकामनांश्च प्रदत्तवान्। स्वसन्देशे
Nitish kumar


पटना, 22 सितंबरमासः (हि.स.)।

शारदीय नवरात्रम् अद्य आरब्धा। तत्सह सर्वे जनाः देवीपूजायाम् व्यवस्थिताः सन्ति।

शारदीय नवरात्रे शुभारम्भे मुख्यमन्त्री श्री नीतीश कुमारः प्रदेशजनान् च देशवासिनः च हार्दिकं अभिनन्दनं शुभकामनांश्च प्रदत्तवान्।

स्वसन्देशे ते उक्तवन्तः यन्“माता दुर्गा शक्तेः अधिष्ठात्री देवी अस्ति। नवरात्रे सम्पूर्णे नवदिने मातृ दुर्गायाः नवस्वरूपाणां पूजायाः विशेषः महत्वः अस्ति। माता दुर्गा भक्तेभ्यः साधकेभ्यश्च शक्तिं संप्रेषयति, करुणा-परोपकारेण प्राणिनां कल्याणं करोति।

मुख्यमन्त्रिणः प्रदेशवासिनः प्रति आह्वानं कृतवन्तः – “नवरात्रि पर्वं पारस्परिकसद्भावेन, आपसीभ्रातृभावेन, शान्तिपूर्वकं च हर्षोल्लासेन सह मिलित्वा आयोजयन्तु।

---------------

हिन्दुस्थान समाचार