Enter your Email Address to subscribe to our newsletters
भोपालम्, 22 सितम्बरमासः (हि.स.)।शक्त्याः उपासायाः महोत्सवः शारदीयो नवरात्रोत्सवः अद्य सोमवासरे आरब्धः।
आश्विनशुक्लप्रतिपदादारभ्य २२ सितम्बरतः १ अक्टोबरपर्यन्तं अस्मिन् पावने उत्सवे भक्ताः दुर्गामातुः नव रूपाणां आराधनां करिष्यन्ति।अस्मिन् पावने अवसर उपमुख्यमन्त्रिणौ राजेन्द्रशुक्लः जगदीशदेवडानामकश्च प्रदेशवासिभ्यः हार्दिकं शुभाशंसनं दत्तवन्तौ।उपमुख्यमन्त्री शुक्लः सोशल-मीडिया “X” इत्यस्य माध्यमेन अवदत्—“शक्त्याः उपासने महापर्वणि शारदीये नवरात्रोत्सवे प्रथमदिने मातुः शैलपुत्र्याः आराधनां कृत्वा प्रार्थये—माता सर्वेषां जीवनानि संयमेन, साहसैः, दृढसंकल्पेन च पूरयतु।मातुः असीमया कृपया सम्पूर्णं जगत् सुखशान्तिसमृद्धिभिः दिव्यप्रकाशेन आलोकितं भवतु।”असौ अपि अवदत्—“नवरात्रस्य नवस्वरूपेभ्यः जीवनाय प्रेरणा, शिक्षाश्च लभ्यन्ते।अद्य शक्त्याः उपासायाः पर्व शारदीयो नवरात्रारम्भः जातः।नवरात्रस्य प्रथमः दिवसः शैलपुत्रीमातरं समर्पितः।तस्मात् अस्माभिः अडिगसंकल्पशक्तेः शिक्षा लभ्यते।शैलपुत्रीमातुः कृपा सर्वेषु श्रद्धालुषु सदा अस्तु—एवमेव मम मंगलाशंसनम्।”उपमुख्यमन्त्री देवडा अपि अवदत्—“शक्तेः साधनायाः, दुर्गामातुः आराधनायाः च पावने पर्वणि शारदीये नवरात्रोत्सवे सर्वेभ्यः मम मंगलमया शुभकामना।नवरात्रि: केवलं व्रतपूजनमहोत्सवः न, अपि तु एषः अस्मान् मातृशक्तेः वन्दनं कृत्वा साहसस्य, करुणायाः, प्रेम्णः, धर्मनिष्ठायाश्च जीवनमूल्यानां ग्रहणाय शिक्षयति।जगतजननी जगदम्बामातरं प्रार्थये—तस्याः दिव्यमनुग्रहः प्रत्येकहृदये शान्तिं, प्रत्येकगृहे समृद्धिं, प्रत्येकजीवने च ऊर्जा संचारयतु।
हिन्दुस्थान समाचार