दुर्गापूजायाः अवसरे वर्षायाः छायामण्डनम्, वातावरणविभागेन चेतावनी प्रकाशिता
कोलकाता, 22 सितम्बरमासः (हि.स.)। दुर्गापूजायाःपूर्वं वातावरणविभागेन वर्षायाः सम्भावना व्यक्ता। विभागस्य वचनेन उत्तर–अण्डमानसागर–म्यान्मारतटप्रदेशयोः मध्ये चक्रवातीयदबावः निर्मितः अस्ति, यः उत्तरं उत्तरपश्चिमं च प्रति गच्छन् सोमवासरपर्यन्तं उत्तरबंगाल
नैनीताल जनपद का मौसम 5 दिनों तक येलो अलर्ट


कोलकाता, 22 सितम्बरमासः (हि.स.)। दुर्गापूजायाःपूर्वं वातावरणविभागेन वर्षायाः सम्भावना व्यक्ता। विभागस्य वचनेन उत्तर–अण्डमानसागर–म्यान्मारतटप्रदेशयोः मध्ये चक्रवातीयदबावः निर्मितः अस्ति, यः उत्तरं उत्तरपश्चिमं च प्रति गच्छन् सोमवासरपर्यन्तं उत्तरबंगालसागरं प्राप्स्यति। तस्मिन्नेव समये 25 तमे सितम्बरदिवसे म्यान्मार–बांग्लादेशतटसंलग्नउत्तरपूर्वबंगालसागरे निम्नदबावक्षेत्रस्य सम्भावना अस्ति। एतत् द्वित्रिदिवसेषु गाढं दबावं रूपेण परिवर्तितुं शक्यते।

वातावरणविभागस्य वरिष्ठाधिकारी उक्तवान् यत् अस्य परिणामेन दुर्गापूजायाः आरम्भे एव वर्षायाः सम्भावना अस्ति। विशेषतः तटीयप्रदेशेषु अतिवृष्टिः सम्भाविता। अनुमानं कृतं यत् चतुर्थ्यां (25 सितम्बरमासः) प्रभृत्य वर्षा आरभ्येत, यद्येवं स्थितयः स्थास्यन्ति तर्हि (30 सितम्बरमासः) आरभ्य (2अक्टूबरमासः ) यावत् वर्षा अत्यधिकभवेत्।

सोमवासरे दक्षिणबंगालस्य सर्वेषु मण्डलेषु मन्द्या–मध्यमा वर्षया सह मेघगर्जनवज्रसहितसंभावना उक्ता। दक्षिण 24पर्गणा, पूर्व–पश्चिममेदिनीपुर–जनपदेषु 1–2 मि.मी. महावृष्टेः चेतावनी दत्ता। मङ्गलवासरे अपि एषु त्रिषु जनपदैः सह बांकुड़ादेशस्य कतिपयभागेषु महावृष्टेः चेतावनी अस्ति।

उत्तरबंगालमण्डलेषु—दार्जिलिङ्गात् आरभ्य माल्दापर्यन्तम्—मेघगर्जनं विद्युतः, तूफानीवायवः सह वर्षासम्भावना उक्ता। मौसमविभागेन निगद्यते यत् वायोः वेगः प्रति होरा 30–40 किलोमीट्रपर्यन्तं स्यात्।

कोलकातेऽपि सोमवासरादारभ्य मन्द्या–मध्यमा वर्षा सम्भाविता, या उत्सवोत्साहे प्रभावं कर्तुं शक्नोति। मुख्यमंत्री ममताबनर्जी आयोजकेभ्यः सतर्कतां आवश्यकताः च व्यवस्थाः कर्तुं निर्दिष्टवती।

हिन्दुस्थान समाचार / अंशु गुप्ता