मध्यप्रदेशः - राज्यपालः पटेलः अद्य ग्वालियरनगरस्थे जीवाजी-विश्वविद्यालये दीक्षान्तसमारोहे सहभागी भविष्यति
भोपालम्, 22 सितम्बरमासः (हि.स.)।मध्यप्रदेशस्य राज्यपालः मङ्गुभाई पटेलः अद्य सोमवासरे ग्वालियर-प्रवासे जीवाजी-विश्वविद्यालयस्य दीक्षान्त-समारोहे मुख्यातिथिरूपेण सम्मिलिताः भविष्यन्ति। तेन सह अन्येषु अपि कार्यक्रमेषु सहभागिता करिष्यते। नियत-कार्यक्रम
राज्यपाल मंगुभाई पटेल (फाइल फोटो)


भोपालम्, 22 सितम्बरमासः (हि.स.)।मध्यप्रदेशस्य राज्यपालः मङ्गुभाई पटेलः अद्य सोमवासरे ग्वालियर-प्रवासे जीवाजी-विश्वविद्यालयस्य दीक्षान्त-समारोहे मुख्यातिथिरूपेण सम्मिलिताः भविष्यन्ति। तेन सह अन्येषु अपि कार्यक्रमेषु सहभागिता करिष्यते।

नियत-कार्यक्रमानुसारं राज्यपालः पटेलः प्रातः ११ वादने जीवाजी-विश्वविद्यालयं गत्वा दीक्षान्त-समारोहे सम्मिलिष्यन्ते। ततः परं व्ही.आई.पी. सर्किट्-गृहम् (मुरार) गमिष्यन्ति। अपरान्ह २ वादने राज्यपालः पटेलः पथि मार्गेण मुरैना-जिले स्थितं करह-धामं गत्वा पूजा-अर्चनां करिष्यन्ति। अपरान्ह २.४० वादने मुरैना-जिलस्य धनेला-ग्रामं गत्वा स्थानिके कार्यक्रमे भागं ग्रहीष्यन्ति। ततः परं अपरान्ह ४.२० वादने पुनः व्ही.आई.पी. सर्किट्-गृहं मुरारं प्रत्यागत्य विश्रामं करिष्यन्ति।

सायं ५ वादने राज्यपालः पटेलः सेवा-पख्वाडे अन्तर्गतम् राष्ट्रीय-सिकल-सेल-अनीमिया-उन्मूलन-मिशनस्य जन-जागरूकता तथा संवाद-कार्यक्रमे भागं ग्रहीष्यन्ति, सिकल-सेल-रोगिभ्यः च कार्ड् वितरणं करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता