नवरात्रोत्सवे हिमाचलप्रदेशस्य शक्तिपीठेषु भक्तजनानां जनसमूहः जातः, सुरक्षाायाः कठोरव्यवस्था अपि कृता
शिमला, 22 सितम्बरमासः (हि.स.)। शारदीयनवरात्रस्यारम्भे एव सोमवासरे प्रातःकालात् प्रदेशस्य शक्तिपीठेषु भक्तजनानां घनघनः समुदायः समायातः। नैना देवी, चिन्तापूर्णी, ज्वालामुखी, ब्रजेश्वरी, चामुण्डा देवी इत्यादयः प्रमुखाः शक्तिपीठाः भक्तिभावेन आक्रान्ताः।
मंदिर में उमड़े श्रद्धालु


शिमला, 22 सितम्बरमासः (हि.स.)। शारदीयनवरात्रस्यारम्भे एव सोमवासरे प्रातःकालात् प्रदेशस्य शक्तिपीठेषु भक्तजनानां घनघनः समुदायः समायातः। नैना देवी, चिन्तापूर्णी, ज्वालामुखी, ब्रजेश्वरी, चामुण्डा देवी इत्यादयः प्रमुखाः शक्तिपीठाः भक्तिभावेन आक्रान्ताः। बहिर्देशेभ्यः अपि बहवः जनाः मातरं द्रष्टुं प्राप्ताः। मन्दिराणि नानाविधैः पुष्पैः दीपप्रभाभिः च अलङ्कृतानि। प्रथमे नवरात्रे दुर्गायाः शैलपुत्र्याः स्वरूपस्य पूजाऽर्चनं क्रियते। बिलासपुरे नैना देवीमन्दिरस्य द्वाराणि रविवासरे रात्रौ 2 वादने उद्घाटिताः, ऊनायां चिन्तापूर्णीमन्दिरस्य द्वाराणि प्रातः 4 र्वादने, काङ्ग्राजनपदे ज्वालाजी–ब्रजेश्वरी–चामुण्डादेवीमन्दिराणां द्वाराणि प्रातः 5 वादने उद्घाटिताः। राजधानीशिमलायां तारादेवी, ढिङ्गूमाता, कालीबाडी, कामना देवी, बीसीएसस्थितदुर्गामन्दिराणि च भव्यतया सज्जीकृतानि, यत्र प्रभातात् एव भक्तजनानां आगमनं प्रवर्तमानम्।

भक्तजनसमूहं दृष्ट्वा आरक्षकविभागेन सुरक्षाायाः व्यापकाः उपायाः स्वीकृताः। आरक्षकमहानिर्देशकः अशोक तिवारी, आईपीएस, सर्वेषां मण्डलानां आरक्षक अध्यक्षान् रेंजस्तरीयाञ्च आईजीपी/डीआईजी इत्येभ्यः विशेषसावधानतायाः आदेशान् दत्तवान्। सः अवदत् यत् उत्सवकाले सार्वजनिकसुरक्षायां नियमव्यवस्थायां च आरक्षकाणां सक्रियः दृष्टिकोणः अतीव आवश्यकः।

आरक्षकेन सर्वेषु शक्तिपीठेषु प्रमुखेषु मन्दिरेषु च जनसमूह-व्यवस्थापनाय बैरिकेड्स्‌ नियन्त्रणबिन्दवः च स्थापिताः। सीसीटीवी-कैमैरैः ड्रोनैः च मन्दिरप्रकोष्ठेषु परिसरप्रदेशेषु च कठोरं निरीक्षणं क्रियते। स्थानीयप्रशासन–मन्दिरसमितिभिः सह समन्वयः कृतः यत् भक्तजनानां किञ्चित् अपि विघ्नः न भवेत्। भक्तजनगमनागमनस्य सुचारुत्वाय आरक्षकजनाः निरन्तरं तिष्ठन्ति।

आपदवस्थायाः निवृत्तये स्पष्टाः निर्गमयोजनाः आपत्सङ्ग्रहमण्डलानि च निर्दिष्टानि। पर्याप्ताः प्राथमिकचिकित्सासुविधाः, रुग्णवाहनानि, चिकित्सकदलानि च नियोजितानि। यत्र तत्र च सामाजिकमाध्यमेषु मिथकथनानां भ्रान्तिसूचनानां च निवारणाय विशेषनिरीक्षणं क्रियते। आरक्षकेन उक्तं यत् पूर्वानुभवात् शिक्षां गृहीत्वा अस्मिन् वर्षे सुरक्षा अधिकं दृढीकरणं कृतम्।

यातायातव्यवस्थापनाय अपि अतिरिक्तः आरक्षकबलः नियोजितः, येन भक्तजनाः यातायातजामेन न पीड्येरन्। आपत्कालीनसङ्ख्याः अपि प्रकाशिताः, येन कस्यापि परिस्थितौ जनाः त्वरितं साहाय्यं याचितुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता