Enter your Email Address to subscribe to our newsletters
भाेपालम्, 22 सितंबरमासः (हि.स.)।
शक्त्याः आराधनायाः महापर्व – शारदीयनवरात्रं
अद्य (सोमवासरे) आरब्धः।
२२ सितम्बर-तारिकातः १ अक्टोबर-तारिकां यावत् नवरात्रिपर्व आचर्यते।
सामान्यतया नवरात्रपर्वः नवदिनानि आचर्यते, किन्तु अस्मिन् वर्षे चतुर्थीतिथेः द्विदिनत्वात् दशदिनानि नवरात्रं भविष्यति।
नवरात्रस्य प्रथमे दिने घट-कलशस्थापनायाः विशेषं महत्त्वं भवति।
कलशस्थापनया गृहे देवी आगच्छति, सा च भक्तानां कृपां वहति इति विश्वासः।
शारदीयनवरात्रेः आरम्भसमये एव मध्यप्रदेशस्य प्रमुखेषु शक्तिपीठेषु देवीधामेषु च भक्तानां भीडः स्फुटम् अभवत्।
राजधानी-भोपालनगरस्य समीपस्थेषु प्रमुखेषु देव्यमन्दिरेषु प्रातःकालात् आरभ्य भक्तजनानां भीडः दृश्यते।
सीहोर-जिलायाः सलकनपुरस्थितं बिजासनदेवीमन्दिरम्, दतियायाः पीताम्बरादेवीपीठं बगलामुखीधूमावतीमातामन्दिरं च आराधनायाः प्रमुखकेन्द्राणि।
उज्जयिन्याः हरसिद्धिमातामन्दिरे, जबल्पुरस्य च चौंसठयोगिन्यमन्दिरे शिवपार्वत्योः विवाहप्रतिमा अद्वितीया अस्ति — तां दृष्टुं नर्मदानद्याः अपि धारा परिवर्तिता आसीत् इति प्रसिद्धिः।
मैहरनाम्नि श्रीशारदामन्दिरं द्विपञ्चाशत् शक्तिपीठेषु गण्यमानम्।
यत्र आल्हा-ऊदलयोः अद्यापि आरत्यां आगमनं भवति इति भक्तानां रोमाञ्चकारणम्।
देवासटेकरीस्थे चामुण्डादेवीमन्दिरे (लघुमाता) तुलजाभवानीमन्दिरे (महामाता) च शक्तेः प्रतीकत्वं मान्यते।
छिन्द्वाडाजिलायाः हिङ्गलाजमन्दिरं सन्तानप्राप्तये नेत्ररोगनिवृत्तये च प्रसिद्धम्।
इन्दौर-टेकरीस्थे बिजासनदेवीमन्दिरे अद्वितीयं वैशिष्ट्यम् – एकस्मिन्नेव स्थले नवदुर्गारूपाणि विराजन्ति।
ग्वालियरनगर्याः कैंसरपर्वतस्थे मांढरेवालिमातामन्दिरे राजपरिवारस्य (सिंधियकुलस्य) कुलदेवी प्रतिष्ठिता।
अत्र शुभकार्यपूर्वं दर्शनम् अनिवार्यम् इति विश्वासः।
मुख्यमन्त्री डॉ. यादवस्य शुभाशयाः
शारदीयनवरात्रपर्वस्य आरम्भे मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः प्रदेशवासिभ्यः शुभकामनाः दत्तवान्।
सोः सोशल-मीडिया-‘एक्स्’ इत्यस्मिन् पृष्ठे एवमलेखि—
“या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
शक्त्याः उपासनायाः पावनपर्वे सर्वेभ्यः हार्दिकाः बधाईः शुभकामनाश्च।
देवीदुर्गायाः अनन्तः आशीर्वादः सर्वेषां प्रति सदा अस्तु।
सर्वेषां मनोरथाः पूर्णाः भवन्तु, एषा एव करबद्धा प्रार्थना। जयमातादी।”
अन्यस्मिन् सन्देशे मुख्यमन्त्री डॉ. यादवः नवरात्रिपर्वस्य प्रथमदिने मातरं शैलपुत्रीं प्रणम्य अवदत्—
“वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्॥”
शारदीयनवरात्रेः प्रथमे दिवसे मां शैलपुत्र्याः पावनपादयोः वन्दनम्।
भक्तानां सर्वेषां दुःखानि दूरं कृत्वा गृहाङ्गनानि समृद्ध्या, आनन्देन, आरोग्येण च अभिसिञ्चतु इति देव्या मातुः कृपायाः याचना।
---------------
हिन्दुस्थान समाचार