Enter your Email Address to subscribe to our newsletters
रीवा, 22 सितम्बरमासः (हि.स.)। मध्यप्रदेशे विद्यालय-शिक्षा-विभागेन अद्य (सोमवासरे) रीवा-नगर्याम् ६९ तमा राज्यस्तरीया शालायाः क्रीडा-प्रतियोगिता आयोजितं भवति। आगामि २६ सितम्बर-तारिखपर्यन्तं प्रचलिष्यन्ती अस्याः प्रतियोगितायाः शुभारम्भं अद्य उपमुख्यमन्त्री राजेन्द्रः शुक्लः करिष्यति।
जिलाशिक्षाधिकारी रामराजप्रसादः मिश्रः निवेदितवान् यत् १७ वर्षपर्यन्तं वयस्केषु बालकेषु बालिकासु च वर्गयोः वलिबाल-प्रतियोगितायां भोपाल, इन्दौर, उज्जयिनी, नर्मदापुरम्, जबल्पुरम्, सागरम्, ग्वालियरम्, शहडोलं तथा रीवा-संभागस्य दलानि, जनजाति-कार्य-विभागस्य च दलं सम्मिलिष्यति।
तेन उक्तं यत् शासकीय-मार्तण्ड-उच्चतर-माध्यमिक-विद्यालयस्य क्रमाङ्क-एकं त्रयश्च क्षेत्रयोः अपराह्णे द्वयोः वादने आरभ्यमाणस्य उद्घाटन-कार्यक्रमस्य अध्यक्षता सांसदः जनार्दनः मिश्रः करिष्यति। विशिष्ट-अतिथिरूपेण जिलापंचायत-अध्यक्षाया नीताया कोल, नगर-निगम-अध्यक्षः व्यङ्कटेशः पाण्डेय, पूर्व-महापौरः वीरेन्द्रः गुप्तः, कलेक्टरः प्रतिभा पाल, नगर-निगम-आयुक्तः डॉ. सौरभः सोनवणे, जिलापंचायत-सीईओ मेहताबसिंहः गुर्जरः च उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता