Enter your Email Address to subscribe to our newsletters
भोपालम्, 22 सितम्बरमासः (हि.स.)। मध्यप्रदेशे विशेषवाहनपरीक्षणाभियानस्य शुभारम्भः।
मध्यप्रदेशे सड़कसुरक्षां सुदृढां कर्तुं, मोटरयानअधिनियमस्य पालनं सुनिश्चितुं च परिवहनविभागेन अद्य सोमवासरे आरभ्य द्विसप्ताहपर्यन्तं विशेषः वाहनपरीक्षणाभियानः प्रवर्तयिष्यते। एषः अभियानः समस्तेषु जनपदेषु एककालेन प्रवर्तिष्यते।
परिवहनविभागस्य विज्ञप्त्यां निर्दिष्टम्— यत्र यत्र अग्निशमनतन्त्रं नास्ति, फर्स्टएड्-किट् नोपलब्धं, रेट्रो-रिफ्लेक्टिव् चिन्हानि न लघ्नानि च भवन्ति, तत्र तेषां वाहनानां विरुद्धं कार्यवाही भविष्यति।येन येन यात्रिबसयाः ऑल्-इण्डिया-टूरिस्ट्-परमिट् गृह्य स्टेज्-कैरिज् रूपेण अवैधं संचालनं कृतं, तत्र अपराधिनां विरुद्धं दण्डात्मकक्रिया भविष्यति।ये वाहनस्वामिनः मध्यप्रदेशमोटरयानकरं न दत्तवन्तः, तेषां विरुद्धं अपि नियमानुसार कार्यवाही करिष्यते।
सड़कसुरक्षायाः दृष्ट्या अधिनियमविरुद्धकृत्येषु —ओव्हरलोडिङ् (अधिकभारवाहनम्), ओव्हरस्पीडिङ् (अतिवेगचालनम्),पात्रताया अपेक्षया अधिकानां यात्रिणां वहनम् —एतेषु अपराधेषु विशेषं कठोरं दण्डप्रयोगः करिष्यते।
परिवहनआयुक्तेन निर्देशः दत्तः यत् विद्यालयबसयः अपि सावधानतया परीक्ष्यन्ताम्, नियमविरुद्धं चालनं कुर्वतां चालकानां अनुज्ञापत्रं (लाइसेंस्) स्थगितं करिष्यते।
एतेन सह—वाहनपटले स्वामिनां मोबाइल्-सङ्ख्याः अद्यतनं करिष्यते।पटले विद्यमानं डुप्लीकेट्-डाटां अपाकरिष्यते। अभियानार्थं प्रतिजिलं आरटीओ, परिवहननिरीक्षकः, उपनिरीक्षकः च नियुक्ताः। ते प्रतिदिनं कृतकार्यवृत्तान्तं परिवहनआयुक्तकार्यालये प्रेषयिष्यन्ति।
आयुक्तेन समस्तेषु आरटीओ-अधिकारीषु सह वीडियो-कॉन्फ्रेन्स् द्वारा सभां कृत्वा आदेशः दत्तः—“अभियानस्य समये यात्रिगणस्य असुविधा न भवेत्, इत्यस्मिन् विशेषः ध्यानं दातव्यम्।”
हिन्दुस्थान समाचार / अंशु गुप्ता