Enter your Email Address to subscribe to our newsletters
-परीक्षायाः शुचितायां कश्चन प्रभावः न जातः : मर्तोलिया
-सामाजिकमाध्यमखातेषु प्रसारणसम्बद्धसूचनायाः आधारेन तत्क्षणमेव विशेषअन्वेषणदलम् गठितम्।
-प्रश्नपत्रं प्रेषयितुः ख़ालिद् मलिक् नामकस्य अन्वेषणे आरक्षकाः निरतः।
देहरादूनम्, 22 सितंबरमासः (हि.स.)। उत्तराखण्डस्य यूकेएसएसएससी-स्नातकस्तरीयपरीक्षा विवादग्रस्ताभूतः। उत्तराखण्ड-अधीनस्थ-चयन-आयोगस्य (यूकेएसएसएससी) स्नातकस्तरीयपरीक्षा विवादेषु प्रविष्टा। परीक्षायाः आरम्भात् 35 निमेषानन्तरं प्रश्नपत्रस्य त्रयः पृष्ठाः सामाजिकमाध्यमेषु प्रसारिताः। आरक्षकैः आयोगेन च उक्तं यत् प्रश्नपत्रलीक् न जातम्, केवलं परीक्षापद्धतिं सनसनीखेजं कर्तुं, दूषयितुं च कर्तुं तानि स्क्रीनशॉट्स् प्रसारितानि। अस्मिन् प्रकरणे द्वौ जनौ निगृहीतौ। प्रश्नपत्रं प्रेषयितुः ख़ालिद् मलिक् नामकस्य अन्वेषणम् आरक्षकैः क्रियते।
रविवासरे रात्रौ देहरादून-नगरस्थित वरिष्ठआरक्षकाधिकारिणः (एसएसपी) अजयसिंह, आयोगाध्यक्षः गणेशसिंह-मर्तोलिया च संयुक्तं पत्रकारसमागमं कृत्वा उक्तवतः। अजय सिंहोऽब्रवीत्— परीक्षासम्बद्धाः चर्चाः सामाजिकमाध्यमेषु आसन्, तासु अनुशासनं कृतम्। द्वौ निगृहीतौ। अद्यावधि ये साक्ष्याः प्राप्ताः, तेषां आधारेण प्रथमदृष्ट्या कश्चन संगठितगिरोहः न दृश्यते। परीक्षा-केंद्रेषु आरक्षक-पर्यवेक्षणम् अपि परीक्ष्यते, कश्चन अपराधी न मोक्स्यते।
आयोगाध्यक्षः अवदत्— 1,54,000 अभ्यर्थिनः परीक्षायां आसन्। प्रश्नपत्रशुचितायां कश्चन प्रभावः न जातः। हरिद्वार-केंद्रे कुत्र च्युतिः जातेत्यस्य परीक्षणं क्रियते।
एसएसपी उक्तवान्— सामाजिकमाध्यमेषु प्रश्नपत्रस्य छायाचित्राणि केषुचित् खातेषु प्रसारितानि इति ज्ञायमानं जातम्। तेन आधारतः विशेषअन्वेषणदलम् (एसआईटी) त्वरितं गठितम्। आयोगेन अपि प्रार्थनापत्रं देहरादून-एसएसपी-कक्षे दत्तम्।
प्रारम्भिकजांचायाम् ज्ञातम् यत् प्रातः 11 वादने परीक्षायाः आरम्भात् पूर्वं प्रश्नपत्रस्य लीक् विषये न कापि सूचना प्राप्ता। किन्तु अपराह्णे 1:30 वादने ज्ञातं यत् सामाजिकमाध्यमेषु प्रातः 11:35 वादने प्रश्नपत्रस्य कतिपयभागाः प्रसारिताः। अनुसंधाने ज्ञातं यत् प्रश्नपत्रफोटोः प्रथमं टिहरी-स्थित-सहायकप्राध्यापिका सुमन नाम्नि महिलायाः समीपे आगताः। तेन प्रतिवचनानि अपि प्रेषितानि।
महिलायाः वक्तव्येन ज्ञातं यत् सा 2018 तमे वर्षे निगमऋषिकेशे करनिर्वाहकपदे नियुक्ता आसीत्। तत्रैव सीपीडब्ल्यूडी-संविदा-जेई पदे नियुक्तः ख़ालिद् मलिक् इत्यस्य परिचयं प्राप्तवती। अद्य प्रश्नपत्रस्य छायाचित्राणि खालिदस्य दूरभाषतः प्राप्तानि। तस्य बहिन्याः नाम्ना स्वीयपरीक्षायाः कृते उत्तराणि पृष्टानि। तानि उत्तराणि सुमन्या प्रेषितानि।
ततः बॉबी पंवार इत्यस्मै सूचना दत्ता। सः उक्तवान् यत् सामाजिकमाध्यमेषु स्क्रीनशॉट्स् प्रसारितव्याः, आरक्षकान् न अवगतव्यमिति। तेन सामाजिकमाध्यमेषु प्रसारणं कृतम्।
आरक्षकैः उक्तं यत् परीक्षा-बद्नामनस्य उद्देश्येन एव स्क्रीनशॉट्स् प्रसारिताः। ततः सरकारं प्रणालीं च विरोध्य आपत्तिजनक-पोस्टाः अपि कृताः। अनेन आधारतः रायपुर-आरक्षकालये उत्तराखण्ड-प्रतियोगी-परीक्षा-अध्यादेशः 2023 अन्तर्गतम् अभियोगः पंजीकृतः।
सुमन्याः प्रश्नेन ज्ञातानि अभियुक्ताः तेषां सम्पर्किताः च छात्राः परीक्ष्यन्ते। गहनं विवेचनं च चलति यत् केवलं कर्तुमेव वा स्क्रीनशॉट्स् प्रसारिताः।
अद्यावधि प्रारम्भिक-जांचायाम् संगठितगिरोहस्य वा पेपरलीक्-गैङ्गस्य च संलिप्तता न दृश्यते। केवलं एकस्मात् केंद्रात्, एकस्मात् व्यक्तेः, प्रश्नपत्रस्य छायाचित्राणि प्रेषितानि। अभियुक्ताः चिन्हिताः, तेषां निग्रहणस्य कृते आरक्षकदलः निरतः वर्तते।
------------------------
हिन्दुस्थान समाचार / अंशु गुप्ता