Enter your Email Address to subscribe to our newsletters
लोहरदगा , 22 सितम्बरमासः (हि.स) | लोहरदगा–जनपदे आश्विननवरात्रस्य शुभारम्भः महान् भक्तिभावेन जातः। सोमवासरे प्रभाते एव जनाः मातरं सम्यक् आराधयन्तः आसन्। सर्वत्र शौचं स्वच्छता च दृश्यते स्म, भक्तिगीतानां घोषेण वातावरणं भक्तिमयं जातम्। जनाः कलशं स्थाप्य मातरं पूजयामासुः। सर्वत्र उत्साहपरिपूर्णं वातावरणं दृश्यते स्म, जनाः भक्तिरसस्य वर्णे लीनाः सन्तः प्रतीताः।
अस्मिन् अवसरे पण्डितः अखिलेश-मिश्रा अवदत् – शक्तिरैश्वर्यं ज्ञानं विज्ञानं च यस्याः, सा देवी महाकाली महालक्ष्मी महासरस्वती च। एतासां त्रयाणां महाशक्तीनां समष्टिरूपा या, सा एव माता दुर्गा। तस्मादेव पराशक्तेः भगवत्याः ब्रह्मा विष्णु महेशः समग्रं स्थावरजङ्गमात्मकं जगतं च उत्पन्नम्। यत् किंचित् जगति अस्ति तत् अस्यामेव समाहितम्। देवी स्वयमेव उक्तवती – “सर्वं विश्वं मय्येव, मम विना अन्यदविनाशि नास्ति।” दुर्गासप्तशत्यां प्रथमे स्थाने शैलपुत्र्याः माहात्म्यं वर्णितम्।
“शैलपुत्री” इति शब्दः पर्वततनयां द्योतयति। यज्ञकाले राज्ञा दक्षेण शिवस्य तिरस्कारं दृष्ट्वा माता सती स्वदेहम् यज्ञवेद्यां होमकृतवती। ततः सती कठोरं तपं कृत्वा पार्वत्याः रूपे जन्म लब्धवती। शैलराजहिमालयस्य पुत्री इति कारणेन नाम शैलपुत्री प्रख्यातम्। अस्याः अनेकानि नामानि सन्ति—शैलजा, उमा, गौरी इत्यादयः। शिवं प्राप्तुं सा घोरं तपं कृत्वा “अपर्णा” इत्यपि ख्यातिः। देवी पार्वतीः शिवस्य आद्याशक्तिः। प्रकृतौ ये सर्वेऽजरामराः तत्त्वानि सन्ति, तानि सर्वाणि अस्याः अधीनानि। अस्याः एव आराधनया नवरात्रस्य आरम्भः मन्यते। माता भक्तेभ्यः मनोवाञ्छितं फलं प्रददाति। जगत्जननी माता दुर्गा धर्मार्थकाममोक्षान् चतुर्विधान् पुरुषार्थान् प्रदात्री अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता