Enter your Email Address to subscribe to our newsletters
इटावा, 23 सितंबरमासः (हि.स.)। समाजवादी-पक्षस्य वरिष्ठ-नेता आजम खान त्रयोविंशत्-मासानन्तरं इलाहाबाद-उच्चन्यायालयात् जमानतां प्राप्य मंगलवासरे सीतापुर-कारागृहात् मुक्तः जातः। तस्य विमोचने प्रतिक्रिया प्रदर्शयन् समाजवादी-पक्षस्य राष्ट्रीय-महासचिवः शिवपाल-यादवः उक्तवान् यत् “आजम खान समाजवादी-पक्षे आसन् तथा भविष्यति च।”
इटावा-नगरस्य चौगुरजी-प्रदेशे स्वगृहे पत्रकारैः सह संवादं कुर्वन् शिवपाल-सिंह-यादवः न्यायालयाय कृतज्ञतां व्यक्त्वा भाजपा-सरकारं प्रति आरोपं कृतवान्। सः अवदत् यत् “सर्वकारेण आजम् खान मिथ्या-कल्हेषु फंस्य कारागारे प्रेषितः। किन्तु न्यायालयेन तेषु विषयेभ्यः राहतिः प्रदत्ता। अस्माभिः तस्य स्वागतं कृतम्।”
आजम खान बसपा-पक्षे सम्मिलिष्यते इति समाचारान् निराकृत्य शिवपालः उक्तवान् यत् “आजम् खान सपा-पक्षे आसन् तथा भविष्यति च। पक्षः तस्य पूर्णं समर्थनं करोति, अग्रेऽपि करिष्यति च।”---------------
हिन्दुस्थान समाचार / अंशु गुप्ता