भुवनेश्वर मेट्रो रेलयान परियोजना निरस्तीकरणं, समीक्षा क्रियते : मंत्री महापात्रः
भुवनेश्वरम्, 23 सितंबरमासः (हि.स.)।भुवनेश्वर–मेट्रो–रेल–परियोजनायाः भविष्यं प्रति वर्धमानायाम् अनिश्चिततायाम् ओडिशा–सरकारा मङ्गलवासरे स्पष्टं कृतवती यत् एषा महत्वाकाङ्क्षिणी नगरीय–परिवहन–योजना निरस्ता न जाताऽस्ति, अपि तु वर्तमानकाले समीक्षाधीना वर्तत
भुवनेश्वर मेट्रो रेलयान परियोजना निरस्तीकरणं, समीक्षा क्रियते : मंत्री महापात्रः


भुवनेश्वरम्, 23 सितंबरमासः (हि.स.)।भुवनेश्वर–मेट्रो–रेल–परियोजनायाः भविष्यं प्रति वर्धमानायाम् अनिश्चिततायाम् ओडिशा–सरकारा मङ्गलवासरे स्पष्टं कृतवती यत् एषा महत्वाकाङ्क्षिणी नगरीय–परिवहन–योजना निरस्ता न जाताऽस्ति, अपि तु वर्तमानकाले समीक्षाधीना वर्तते।

राज्य–विधानसभायां लिखित–उत्तररूपेण गृह–नगरीय–विकास–मन्त्री कृष्णचन्द्र–महापात्रः अवदत् यत् परियोजनायाः विस्तृत–समीक्षार्थं अन्तर–मन्त्रालय–समितिः गठनं कृतवती। तस्याः समितेः प्रतिवेदनस्य अनुशंसानां च आधारात् एव सरकारः अन्तिमं निर्णयं करिष्यति।

मन्त्रिणा एतदपि उक्तं यत् अद्यावत् परियोजनायां २७७.३६ कोटि–रूप्यकाणि व्ययीकृतानि, यस्मिन् २०२४ वर्षस्य जून–१२ दिनाङ्कानन्तरं २५२.०५ कोटि–रूप्यकाणि विमोचितानि। एतेन सूचितं भवति यत् परियोजनायाः समीक्षा प्रवृत्ता सति अपि वित्तीय–प्रतिबद्धताः निरन्तरं चलन्ति।

---------------

हिन्दुस्थान समाचार